- (४) निषेधविषयत्वेन सर्वस्यासत्त्वं वलादापतेदिति .........(पृ: २८-२९, बौडदर्शनम्-सर्वदर्शनसंग्रहः)। इदं पुनरिहावधेयं यत्, नेदं मया दष्ट' रजतमित्यादौ प्रसज्यप्रतिषेधार्थकता एव नञः दर्शनात् केवलं निषेधात्मकत्वमेव प्रतीयते, न पुनः विधिमुखेनेव स्वपक्षस्थापनमपि तत्र समनुलध्यते। अतएव माध्यमिककारिकाव्याख्यानप्रसङ्गेन तत्रभवतो महामतेश्चन्ट्रकोत्तैः किञ्चिदस्तुखरूपप्रतिपादनतत्पराणां निखिल- शास्त्रार्थावलोकनसूक्ष्मधियामपरेषां दार्शनिकानां मतनिरसनमेव कर्तव्यतया प्रतिभाति, न पुनर्विधिमुखेन वपक्षस्थापनमन्त्र समुपयुज्यते । अतः परं तु आचार्यचन्द्रकोत्तैः मतमनुसृत्य माध्यमिकतत्त्व- विश्लषणे वयं प्रवृत्ताः भवामः । निखिलमिदं जगत् कार्यकारणभावात्मकमिति कार्यकारणभाव- मुखेनैव पदार्थविश्लेषणप्रक्रिया तत्तत्शास्त्रे समुपलभ्यते। अनुभूय- मानञ्च सर्वमिद वस्तुजातं न सर्वदा सर्वत्र सर्व समुपलब्धं भवेदिति सर्वेषमिव सुविदितम् । अतएव सांकृतिकमिदं जगत् कार्य्यतयानुभूयमानं सुतरामिव कादाचित्कमिति स्वीकरणीयम् । हेतुनिरपेक्षकादाचितकत्वं कार्यस्वरूपविरोधितया अहेतुकं काय॑मिति वदत एव व्याघातः स्यात् । तथा सर्वदा सर्वसम्भवाभावस्य उपलब्धतया स्वभाव एव सर्वस्य काय्यजातस्य नियामक इत्यपि न सङ्गच्छते। तस्मात् कादाचित्कत्वेनातिमतस्य कार्यस्य तत्त्वविश्लेषणतत्परैर्दार्शनिकैः विविधां सरणिमाथित्य स्खकीयः सिद्धान्तः समुद्घोषितः। तत्र कार्य सर्वदैव सदिति सांख्याः, उत्पत्तेः प्राक् असदपिकायं उत्पत्त्यनन्तर सदेवेति नैयायिकाः। कदापि कार्य न किमपि स्वभावमावहति इति माध्यमिकाः। तथाच अनुभूयमानानां वस्तुजातानां ये ये सम्भाव्य- मानाः धर्माः, तद्यथा सत्त्वमसत्त्वं, सदसत्त्व, न सत्त्वं नासत्त्वञ्चेति, तेषां तेषां धर्माणां वस्तुस्वभावामहतया फलतः नि:स्वभावमेव वस्तु- तत्त्वमिति माध्यमकानां सिद्धान्तः। एतदेवार्थ प्रतिपिपादयिषुः सांख्यादिमतनिराकरणपूर्वकं स्वाभिमतव्यवस्थापनार्थं कार्यकारण- भावापरपर्यायं प्रतीत्यसमुत्पाद परीक्षमाणः तत्र भवान् नागार्जु नः
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति