१०० मूलमध्यमककारिका विलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति। एव भावानामुत्पादा- भाव प्रतिपाद्यातः पर स्थितिर्विचार्यते । अत्राह, विद्यत एव भावानामुत्पादस्तद्भावभाविधर्मसद्भावात् । नानुत्पत्रस्य स्थितिः संभवतीत्युत्पादभावेन स्थितर्भावात् । स्थिति- रुत्पादाभावभाविनी भवति । तस्मादुत्पादोऽप्यस्ति तद्भावभाविधर्म- सद्भावात्। इह यन्नास्ति न तद्भावभाविधर्मसद्भावस्तद्यथा कुसुमसौरभास्येति, उच्यते । स्यादुत्पादो यदि तद्भावभाविनी स्थितिरव स्यात् । न त्वस्ति । तदेव- गगन- मञ्जव्याख्या। अन्यथापि उत्पाद खण्डयितुमारभते। सव्वं खलु धम्मा: वर्त्त- मानातीतानागतरूपत्वाध्वप्रविष्टा इति वादिनामाशयः । तत्राय प्रश्नः, उत्पादः पुनः कस्य परिकल्प्येत ? कि वर्तमानाध्वप्रविष्टस्य भावस्य ? अथवा अतीतानागताध्वप्रविष्टस्य ? तत्र वर्तमानस्य अति- सूक्ष्मक्षणवरूपतया सर्वदैव निरुध्यमानत्वात् तदनुगतस्य भावस्यापि सुतरामनित्यत्व सिध्यति । वर्तमानञ्च सर्वदैव साम्प्रतमिदानी- मित्यादिप्रतीतिसिद्धतया विद्यमानमेव प्रतीयते। एवञ्च वर्त्तमानाध्व- प्रविष्टभावोऽपि सुतरामेव विद्यमान इति सिध्यति। एवञ्च सति विद्यमानस्य भावस्य पुनरुत्पत्ती प्रयोजनामावतया उत्पादो न सिध्यत्येव। तस्मात् न वर्तमानस्य भावस्य उत्पादः कल्पयितु शक्यते । अतीतमनागतञ्च नित्यमेव, तथाहि उत्पादविनाशश्चालित्वमेव अनित्यत्वप्रयोजकम् । अतीतस्य विनाशाभावात् अनागतस्य उत्पादाभावेन न तयोः अनित्यताप्रसक्तिरिति नित्यत्वमेव तयोरायातम् । भवन्मते भावाश्च पुनः उत्पादस्थितिविनाशलक्षणान्विता इति अनित्यत्वं तेषां स्फुटमेव । एवं स्थिते अतीतानागताध्वप्रवेशे भावानामपि प्रतीतानागतखरूपानातिरिक्तत्व न नितात्वमेवेति न उत्पादो युज्यते ।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति