- - ग्रन्थारम्भे प्रकृतं प्रस्तुयन्नाह-'न स्वतो नापि परत' इति (११)। एतत्कारिकाव्याख्यानावसर विवहरस्य चन्द्रकोत्तः अतिसूक्ष्मविचार- पद्धति: मुविशदं समुपलभ्यते। तत्तु गौरव' परिजिहीर्षया नात्र समालोचितव्यम् । परन्तु केवलमतदेव वक्तव्य यत्, सांख्यन्यायादि- शास्त्रप्रवर्तितां कार्यकारणभावथैलौ यथायथं विचार्य तत्तन्मत- निरसनपूर्वकं चन्द्रकीर्तिणा सर्वेषां वस्तूनां निःस्वभावत्वमेव व्यवस्था- पितम्। तत्र सांख्यमतखण्डने याः युक्तायः उपदर्शिताः तासामय संक्षेपार्थ:-कार्य यदि उत्पत्तेः प्रागपि सदेव स्यात्, तर्हि सतत्त्वतोऽन्यथा- भावात्मकपरिणाममङ्गोकुर्वतां सांख्यानां कारणावस्थायां स्थितस्यैव पदार्थस्य भङ्गान्तरण अभिव्यक्तिः कार्यमिति निर्धारणात् फलतः सहेतुकमेव कार्यमित्यायातम् । अतएव कथमपि नापयुज्यते तन्मतम्, कार्यकारणयोरत्यन्ताभदे इदं काय्य मिदं कारणमिति भेदावगाहि- निर्धारणासम्भवात्। किञ्च उत्पत्तेः प्राक् काव्यस्य सत्ताङ्गी- कार तत्सम्पादनार्थ कत्तव्यापारो निरर्थक एव स्यात्। नहि परिनिष्पन्नमपि अन्न सम्यादयितं पुनर्दाहादिव्यापारः क्रियते केनचित् प्रेक्षावता। अथ स्थितमपि कार्यमनभिव्यक्तमिति तदभिव्यक्तिप्रति- वन्धकोभूतावस्थाव्यपगमार्थ कर्त व्यापारः सफल इति चेत्, अभिव्यक्ति खरूपं पर्य्यालोचयतु आयुष्मान् । किमिहाभिव्यक्तिः कार्यात् भिन्ना, अभिन्ना वा ? अाद्य पक्ष भिन्ना चेत्, अभिव्यक्तरपि अभिव्यक्ताथ किञ्चित् प्रवृत्तिरावश्वको। तथाच अभिव्यक्तराविर्भावार्थ यादृशी प्रचेष्टा समालम्वनीया प्रचेष्टया कार्याभिव्यक्तिन स्यात्, अभिव्यक्तिकार्ययोभिन्नत्वात्। नह्य कप्रसाधकप्रवत्ता अपरं सिध्यति । नहि घटोत्पादनप्रयासेन पटोत्पत्तिदंष्टा क्वचित् लोके । तस्मात् अभिव्यक्तिकार्ययोमदपक्ष कार्यपरिस्फुरणं कथमपि नोपपद्यते। कार्य्यादभिन्नाः एव अभिव्यक्तिरिति चेत् इयमभिव्यक्तिः पूर्व मसती अभिव्यक्तिरसती चेत् सत्कार्यवादसिद्धान्तव्याघातः, सतो चेत्, कर्तव्यापारोऽनर्थकः। कर्च व्यपारात् प्रागपि कार्य्याद- भिन्नाभिव्यक्त विद्यमानतया सुतरा कार्याभिव्यक्तरपि अवश्यम्भावित्वात्। तया सतो वा।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति