पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

........ संस्कृतपरीक्षानाम सप्तमं प्रकरणम् १२७ विनाशो हि स्वरूपापेक्षया भावो, रूपादिधर्मनिवृत्तिखभावत्वात्तु न भावः। अपि च मरणमपि हिविधकार्य प्रतापस्थानं संस्कारविध्वसनं च करोति । अपरिज्ञानुपच्छदं ...चेत्यागमात् । कथं न सहेतुको विनाशः । अपि च कल्पिताभावभावलक्षणायाश्च शून्यतायाः परेण भावरूपतामभ्युपगच्छता कथमभावस्य भावत्व' नाभ्युपगतं भवति। भावत्वाच्च कथमसंस्कृतं शून्यतायाः स्यात् । अतः सर्वमभ्युपेतं विहीयते भवता॥ अतएव वक्ष्यति। भवेदभावो भावश्च निर्माणमुभय' कथम् । नासंस्कृतं हि निर्माण भावाभावौ च संस्कृती ॥ इत्यलं प्रसङ्गन, प्रकृतमेव व्याख्यस्यामः । अनाह। यद्यत्पाद स्थितिभङ्गाः संस्कृतस्य निषिद्धाः, तथापि संस्कृतमस्ति विशेष लक्षणयुक्तम् । तथा हि काठिण्यादिकं ( सानादिकं) च तस्य विशेषलक्षणमुपदिश्यते। तस्मात् संस्कृतस्य सद्भावात् तल्लक्षण. मप्यस्तीति। उच्यते, स्यादेव' यदि संस्कृतमेव वस्तु स्यात्। कुतो, यस्मात् । मत्र जुव्याख्या ॥ अन्यथा विनाशं विचारयति। विनाश: स्वयं विनष्टो न वा ? विनाशो यदि स्वयं न विनष्टः तर्हि अविनष्ट न विनाशेन अपरं कथं नाम नाशयितुं शक्यते अविनष्टस्य अनाशरूपत्वात्। नाशरूपत्वे तु अवि- नष्टत्वं न स्यात्। विनाश: विनष्टः सन् पर नाशयतीति चेत् तहि विनाशस्य विनाशः कश्चित् कल्पनीयः तस्यापि पुनः विनाशान्तर- मिति अनवस्था प्रसज्येत। किञ्च नाशान्तरण विनाशो यदि विनष्टः