(2) विज्ञानं च यथा पुन: सांतिकं स्वीक्रियते तथा ज्ञानादिकमपि सांकृतिकं स्वीक्रियतामिति का हानिः । वस्ततस्तु बौद्धरात्मा अनात्मा कोऽपि नोपदिष्टः। विस्तर' तु मूखग्रन्थे आत्मास्तित्व- खण्डनप्रकरणे द्रष्टव्यम् । उताञ्च- अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ।। वाह्यवस्तु सर्व निःखभावं सुतमिव मायामरीचिस्वप्नादिवत् कल्पमा- विनिर्मितं प्रतीतिमात्रसारं परमार्थतः अलोकमिति, तथा आत्मा स्कन्धादयः क्लेशाः व्यापादानप्रभृतीनामपि मृषाखभावत्वमेवेति सिद्धान्तः। किं वहुना, एतन्मते संसारनिर्वाणयोः सुखदुःखयोः अन्येषां च वस्तूनां निःखभावत्वात् परस्परं कोऽपि भेदो नास्ति । एवं भगवान् बोधि- सत्त्वः तदनुशिष्टं शास्त्रञ्च सर्वमेव गन्धर्वनगरादिवत् असारमिति माध्यमिकानां सिद्धान्तः । केवलं तु अघटनघटनपटीयस्याः अविद्यायाः प्रभावन भ्रान्तिपरिकल्पितमिदं सर्वम्। इयं च भ्रान्ति: पुनरसत्- ख्यातिरूपा, सुतरामव किञ्चिदधिष्ठाननिरपेक्षा। अतएवाधिष्ठानस्या- भावात् अविद्याया अपि नि:स्वभावत्वमक्षतमेव । निखिलमेव प्रपञ्च मायामरीच्योदकादिगन्धर्वनगरवत् भ्रान्तिपरि- कल्पितव्यवहारनिष्पादकमपि परमार्थतः सत्त्वविरहितं यथा माध्य- मिकानां सम्मतं, तथा अविद्यापरिकल्पित तादृशतादृशमेव निखिलं वस्तुजातं पारमार्थिकसत्ताशून्यमिति बहतवेदान्तिनामपि सिद्धान्त- मालोक्य पण्डितम्मन्याः केचन पुनः माध्यमिकाबैतवेदान्तिकयोः मतसाम्यं समुद्घोषयन्तः 'मायाबादमसच्छास्त्र' प्रच्छन्नबौद्धमेव तत्' इति कूर्म पूराणीयवचनं खविजयदुन्दुभिनादोपमं प्रचारयन्ति। एतत् पुनरपरिणीलितमाध्यमिकाह तवेदान्तमतानां सुतरामिव निरतिशय- सूक्ष्मविषयभेदमपालोचयतां अनवधानपरमिव प्रतिभाति। यतः निरधिष्ठानतः भूमपरिकल्पितानां नामरूपादिविविधधर्माकान्तानां 2
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति