(१०) परिदृश्यमानतया व्यवहारोपयोगिनां सर्वेषां वस्तूनां गन्धर्वनगरादिवत् अलीकत्वमेव माध्यमिकानामभिमतम् । अहतवैदान्तिकानां पुनः सदसयामनिर्वाच्यया अनाद्यविद्यया परिकल्पितानां वस्तुजातानां अपारमार्थिकत्वेपि नालीकत्वमभिमतम् । ब्रह्मसत्तातिरिक्तसत्ता- शून्यतया निखिलप्रपञ्चानां फलतः ब्रह्मखरूपत्वेन केवलं सदधिष्ठानक- भ्रमविषयत्वमेव नामरूपादिविकारभेदभिन्नानां जगताम् । तन्मते निरस्तसमस्तभेदोपाधिकतया अखण्डचैतन्यैकरसं सर्वतः परिव्याप्त अवाङ्मनसोगोचर कूटस्थ सवव परमार्थतः सत्यं वस्तु। ब्रह्म- सत्तातिरित्तासत्ताशून्यतयावस्थितानां अनिर्वाच्या विद्याहितयसचिव- ब्रह्मोपादानकानां व्यवद्यिमानानां प्रपञ्चानां सन्मूलकतया नात्यन्त- मसत्व' अनुभूयमानत्वात् अर्थक्रियाकारित्वाच्च । नहि गगनारविन्द- प्रभृतीनामलोकानां व्यवहारविषययोग्यता प्रतीतिविषयता च दृष्टा लोके। तस्मादेव नात्यन्तमसत्त्व प्रपञ्चस्य । अतएवोक्त छान्दोग्ये "सन्मूला: सोम्य इमा: प्रजाः” (६।८।४) नेदममूलं भवतीति (६८२ )। एवं न पुनरत्यन्तसत्त्वमपि तेषाम् । ब्रह्मप्रमातिरिक्तप्रमाऽबाध्यत्वेऽपि वेदान्तवाक्यजन्यनिष्प्रकारकबह्मनिश्चयबाध्यत्वात् तेषां बाधितत्वा- देव न परमार्थतः सत्त्वम् । सत्त्वस्य कदाचिदपि बाधायोगात् । तथाच उत्तरकालबाध्यत्वात् शुक्तिरूप्यादिवत् एकान्ततः सत्त्वे नापि न निर्वचनीयम्। अनुभूयमानत्वाच्च नात्यन्तमसदित्यपि निवक्तुं शक्यते। अतएव सदसयामनिर्वाच्यत्वमेव तेषामुररीकृतं तैः तथाचाहतवेदान्तिमते त्रिविधा खलु सत्ता-प्रातिभासिको, व्यवहारिको, पारमार्थिको चेति। तत्र ब्रह्मसत्तातिरिक्त यत् किञ्चित् प्रमाबाध्यत्व- मेव प्रतिभासिकं सत्त्वम् यथा शक्तिरूप्यादीनाम् । तथा च पुरोवर्तिनि द्रव्ये चक्षुःसंयोगे सति काचकामलादिदोषदूषितान्तःकरणस्य पुस: रजतसादृश्यसधीचोना पूर्वानुभूतरजतादिसंस्कारसमवहिता काचिदन्तः- करणवृत्तिकदेति, तशादेव इदं रजतमिति प्रत्यक्ष तदानीमुपजायते । तथाच इदंतावच्छिन्ने पुरोवर्तिनि द्रव्ये आरोप्यमानं रजतं न वहिःस्थित किञ्चिदस्तु, तात्कालिककारणकलापसमुद्भूतं श्रान्तरमेव अनिर्वचनीयं । -
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति