(११) रजतस्य। किञ्चित् रजतं तज्ज्ञानविषयोभूतम्। अथ प्रणिहितमनसस्तस्य । पुंस: तादशभूमाधिष्ठानभूतशक्तिखरूपाधिगमात् नेदं रजतमिति ज्ञानमुपजायते, तेन च तात्कालिकं तादृशमुत्पन्न रजतं बाधितं भवेत् । तादृशञ्च रजतं यदि सदेव, तर्हि तस्य बाधो न युक्त: असत्त्वं च पुनः प्रत्यक्षता न समुपयुज्यते। अतएव सदसद्भामनिर्वाच्यत्वं तादृशस्य तथाच ब्रह्मप्रमातिरित्तायाः इयं शुतिरितिशुतित्व- प्रकारकप्रमायाः निवर्तनीयतया यथायथं प्रातिभासिकलक्षणाक्रान्त रजतमिदम्। व्यवहारिकसत्त्व पुनः ब्रह्मप्रमातिरिक्तप्रमायाः अबाध्यत्वम्। निखिलमेव व्यवहारिक प्रपञ्च तावदेव सत्त्व न प्रतीतं भवेत् यावत् 'नेह नानास्ति किञ्चन' 'सर्वं खल्विदं ब्रह्म' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादि वेदान्तवाक्यजन्यनिर्विकल्पकब्रह्मनिश्चयों न भवेत् । जति च तादशे निर्विकल्पकब्रह्मनिश्चये नामरूपादि- भेदभिन्न निखिलमेव प्रपञ्च बाधितं भवेत् । तदानीं तु ब्रह्म- खरूपातिरिक्त किञ्चिन्नावशिष्यते। अतएव व्यवहारिकसत्त्व जगतः । पारमार्थिकसत्त्वं पुन: त्रिकालाबाध्यत्त्वम् । तच्च केवलं बह्मण एव। यद्यपि ब्रह्म व जगदुपादानकारणं तथापि कूटस्थतया ब्रह्मणः कार्यकारणदिभावः मिथ्यैव तत्र। अर्थात् ब्रह्म वस्तुतया न कारणं, न वा कार्य्यम् । नित्यशुद्धबुद्धमुक्तास्वभावतया कूटस्थमर्थात् चिरमेक- खरूपमेव वर्तते। कार्यकारणभावादिकल्पनमपि अविद्याविजुम्भित- मेव । यथा अविद्यया शुक्तिरूप्यादिज्ञानदशायामपि तादृशनमा- धिष्ठितं शुक्तिरूपं वस्तु खभावादप्रच्युतमेव तिष्ठति, यथा वा जवालौहित्यप्रतिसंक्रान्तमपि स्फटिकं न स्वभावाच्च्यवते तथैव अनाद्य- याप्रभावन नामरूपादिविकारभेदास्पदं कार्यकारणभावसमाल- भितमपि ब्रह्म सर्वथा स्वभावादप्रच्युतमेव तिष्ठति । अतएव च ब्रह्मणो विवर्तितं जगदिति बैदान्तिकानां सिद्धान्तः । एवञ्च वेदान्त- मतानुशीलनेन स्पष्टमेवेदमवगम्यते यत्, यत् किञ्चित्प्रतिभाति, अनुभूयते ग्यते वा तत् सर्व खरूपत सच्चिदानन्दमयं ब्रह्मव। केवलं तु अनाद्य- विद्याप्रभावन नामरूपादिविकारग्रस्त यत् तहिविधं समवगम्यते ।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति