मूलमध्यमककारिका 1- तेन च मञ्जु व्याख्या आचार्यप्रवरण तत्रभवता नागार्जुनेन शून्यवादपरिशीलनतत्परेण एतावता प्रकरणपञ्चकेन प्रतिपिपादयिषितस्य निःस्वभाववस्तुतत्त्वस्य विचारपूर्वक स्थापन कृतम् । तत्र प्रथमे प्रकरण कार्यकारणभाव- खरूपपरीक्षामुखेन प्रतीत्यसमुत्पादस्वरूपाविस्कारहारकं सत्त्वमसत्त्व सदसदात्मकत्वं न सत् नाप्यसत् स्वरूपत्वञ्चति चतुष्कोटिविनिर्मुक्त शून्यमेव तत्त्वमिति प्रतिज्ञातार्थावतारणमुक्तम् । हितीये च प्रकरण प्रतीत्यसमुत्पादविशेषणतयाभिहितस्य अनागममनिर्गममिति पदयस्व सम्यग्विश्लेषणार्थ प्रसङ्ग परिप्राप्ततया गतिगन्दगन्तव्यत्वेना- भिमतस्य वस्तुनो निराकरणम् । टतोये तु चक्षुरादीन्द्रियनिरा- करणम् । चतुर्थे पञ्चस्कन्ध-निराकरणम् । पञ्चमे चानुभूयमानानां पृथिव्यादिधातू नामपि सम्यग्विचार्य निराकरण कृतम् । पञ्चस्कन्धषडायतनधातूना परमार्थतो निःस्वभावतया प्रतिपादनात् सर्वेषामेव परिकल्प्यमानाना वस्तुजाताना' प्रतिषेधात् शून्यतेव स्वभाबराहित्येन पर्यवसिता स्यादिति प्रतिज्ञातार्थव्यवस्थापनस्थितिः । साम्प्रतञ्च षष्ठे अध्याये रागरत्रपरीक्षाप्रकारः आरभ्यते अत्र चानुभूयमानले शाद्यालम्बनत्वेन स्कन्धायतनधातूना सत्त्व प्रतिपादयितुकामाः केचन वादिनः पुनरिह समुत्तिष्ठन्त । तेषामय- माशयः। सर्वेरेव उपलब्धस्य क्ले शनिचयस्य अनङ्गीकरणासम्भवात तेषा लशानामालम्बनरूपेण पञ्चस्कन्धायतनधातूनां पारमार्थिक- सत्त्वमप्यवश्य मेव स्वीकार्यम् । इह खल्वसहस्त्वालम्बनसुखदुःखादिक नोपलभ्यते । नहि जातुचिदपि विकचगगनकमलिनीमनोहररूप- दर्शनसञ्जातप्रमोदभर' भवति कस्यापि प्रक्षावतो मानसम्। न वा विकटशशशृङ्गविषमविनिपातवेदनाभ्यर्दितं कस्यापि सहृदयस्य हृदयमिति मुविदितमस्ति पांशुलपादानां हालिकानामपि लोके । दृश्यते च विविधवस्तुजातानुभवजनित सुख वा दुःखं वा समुपभुञ्जता प्राणिना तस्मिन् तस्मिन् अनुकूले प्रतिकूले वा वस्तुनि गरीयान् अनुरागी विद्दषो वा। न च इन्द्रियैरग्रहौतभ्यः वस्तुभ्यः सुखं वा दुःख
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति