8 मूलमध्यमककारिका - 2 मूलं भावस्यानुशयः षड् भागः प्रतिघस्तथा। P मान्योऽविद्या (च) दृष्टिश्च [विमतिः] षडमी अपि ॥ अभिधर्मकोश (५१) अन्यच्च- रागोत्या आहोकौढत्यमत्सराः । विवादो सचे- ( कोः ५।४८) रागस्य क्ल शस्वरूपतां समर्थ यन्नपि तत्राह- आसयन्त्यास्रवन्त्ये [ ते ] हरन्ति श्लषयन्ति ( (च)। उपग्यङ्गन्ती [ ति ] ततो निरुक्ता आस्रवाद् यः॥ (५।४०) रागस्य लशस्वरूपत्व पातञ्जलेऽपि समर्थित यथा-अविद्या- स्मितारागद्देषाभिनिवेशाः पञ्च क्ल शाः इति। (साधनपादः, टतीय सूत्रम् )। विवृतञ्च भाष्थे तत्र व ते स्यन्दमाना गुणाधिकारं द्रढयन्ति परिणाममवस्थापयन्ति कार्यकारणस्रोत उन्नमयन्ति परस्परानुग्रहतन्त्री- भूय कर्मविपाक चाभिनिर्हरन्ति' इति । तथा च क्ले शालम्बनभूतानां पञ्चस्कन्धायतनधातूनां न नमेव सत्त्वमम्युपियमित्यकामेनापि भवता स्वीकर्तव्यमित्यतः शून्यं तत्त्वमिति मनोरथमात्रम् । विरोधिभिरेवमुद्धावितस्याक्षेपस्य निराकरणार्थमेव प्रकरणमेतत । तत्रायमभिप्रायः। इन्द्रियविषयपरिग्रहोतेषु विषयेषु अभिनिवेशात रागः समुत पद्यते तद्दशाच्च रक्त: जन्तु: ल शकर्मादिकमभिसन्धातीति येय युक्तिपटली शून्यवाद-निराकरणाथं लब्धप्रसरा पदं स्थापयेत, तत्राभि- निवेशवशाच्चित्त रक्त भवेदिति ब्रुवत: भवत: कोऽभिप्रायः ? राग विना न रत्तो यद्येव ते वक्तव्यं स्यात्तदा पृच्छयते भवता परिकल्प्य- मानोऽय रागः कुत्र तिष्ठति, सति रत चित्तं रागो विद्यते, असति वा रती रागो विद्यते। रागो नाम यदि सत्खभावः कश्चित् स्यात अवश्यमेव स: किञ्चिदाधारको भवितव्यः, क्वचिदप्यनवस्थितत्वे तस्य बन्ध्यापुत्रस्येव सत्तायोगात्। तथा च रागेणापि अवश्यमेव किञ्चिदा- श्रयेण भवितव्यम् । अतो रागाश्रयत्वेनाभिमतस्य वस्तुन: खरूप-
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति