४० मूलमध्यमककारिका घटते। . प्रागपि तस्य वस्तुनः सत्त्वमावश्यकम् । अन्यथा कालेन सह तस्य सम्बन्धासम्भवात । नहि असति सम्बन्धिनि सम्बन्धः सम्भवति । तथाच सति उत्पादात् पूर्वमपि उत्पत्स्यमानत्व नाभिमतस्य वस्तुनः सत्त्वे उतपादेन किमधिक प्रयोजनं साधितं भवेत् । ततश्च अस्मिन् पक्ष उत्पादः निरर्थक एव स्यात् । यदि पुनरवस्थान्तरत्यागन अवस्थान्तर- प्राप्तिरेव उत्पादः यथा सुवर्णमयं पिण्ड पिण्डावस्थां परित्यज्य कुण्ड लावस्थां ग्रहातोति मन्यसे तथापि घट्टकुव्यां प्रभातःपारस्य का कथा ? तथाहि सुवर्णस्य पिण्डावस्था खाभाविकी नवेति विचार्यताम् । खाभाविको चेत् तस्या यावद्र्व्यभावित्वनियमात, परित्याग एव न तत् परित्यागे सुवर्णस्यापि विनाशप्राप्तिसम्भवात् । अथ आगन्तुकावस्था सा इति चेत् तदापि पिण्डाद्यवस्थां विना धर्मि- खरूपस्य सुवर्णस्य किञ्चित् खरूपसत्त्वमावश्यकम् । तच्च न प्रमाणेना- वगन्तु शक्ल यात्। नहि कामप्यवस्थामन्तरेण कस्यपि धर्मिणः सत्त्व कदाचिदपि प्रमाणन प्रमाणितं भवेत् । एवञ्च पिण्डावस्थायाः आगन्तु- कत्वेऽपि तत्पूर्वावस्था परित्यज्य व पिण्डावस्था प्राप्तिरिति खोकर्त्तव्या। तत्रापि पूर्वावस्थापरित्यागः अवस्थान्तरप्राप्तिश्च क्रमेण युगपहा । क्रमिकमिति चेत् तत्र एकावस्थापरित्यागक्षण अन्यस्याः कस्या अपि अवस्थायाः अभावात् सुवर्णस्येव विनाशप्रसङ्गः । तदानीमवस्था- न्तरानुत्पत्त: पूर्वावस्थायाः विनाशाच्च। नहि निरवस्थ किञ्चित् स्थातुर्महति। तथाच विनष्टस्य सुवर्णस्य पुनरवस्थान्तरप्राप्ति: कुतः सम्भाव्येत ? अथ युगपदिति रह्यतामिति चेत् तत्रापि इत्थं विचार- णीयम् । किं पूर्वावस्थायाः परित्यागस्तत्र भवेत् अपरित्यागो वा ? यदि पूर्वावस्थायाः परित्याग एव स्वोक्रियते तदापि निरवस्थस्य सुव- र्णसा अवस्थानासम्भवात सुवर्णस्य व विनाशः खोकर्त्तव्यः स्यात् । अथ अपरित्याग एव इष्टः, तदा एकस्मिन्नेव काले पिण्डाकार' कुण्डला- कारं च सुवर्ण प्रत्यक्षेण ग्राजीयात । वस्तुतस्तु तत कथमपि न भवेत.। अतो वहुप्रयत्नेनापि अवस्थान्तरपरित्यागपक्षः न समुप- युज्यते। अथ प्रखरदिनकरमरीचिमानाभिभूतानां ग्रहनक्षत्रादीनां । ,
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति