न न - संस्कृतपरोक्षा नाम सप्तमं प्रकरणम् ७१ खीकर्तव्यः। अन्यथा महदसमञ्जस भवेत् । तथाच यत्र नाश- कत्वेनाभिमतस्य उत्पत्तौ यत्र नाश्यस्य नाश पूर्वमपेक्ष्यते तत्र नाश्य- नाशकयोः संयोगासंभवाद्भयप्राप्तिपूर्वकत्वनियमो विनाश सम्भवति । यत्र तु खकारणभ्यो नाश्यस्स नाशकस्य च पृथगुत्पत्ति सम्भवति तत्रैव प्राप्तिपूर्वकत्वनियम आदरणीयः । पवञ्च मति तमोनाशान्तरमाविर्भूतस्य प्रदीपस्य तमसा संयोगाभावेपि तमो- नाशकत्व सम्भवत्येव । घटमुगरादिस्थले तु व खकारणात् तयोर्जन्मसम्भवात् तत्र उभयप्राप्तिपूर्वकत्व विनाशस्य सम्भवति । एवअप्रात्ती सत्यामपि कार्यकारणभावोनानुपलक्ष्यते, यथा चक्षुः रूप पश्यति। चक्षुषो यत् रूपावाप्तिः तदेव रूपदर्शनमिति कथ्यते । चादौ रूप प्राप्य पश्चात् चक्षुषा तत् दृश्यते । तथाच कार्यभूत यद्रुप तदप्राप्यापि चक्षु स्तत् पश्यतीति सिद्धमेव। एवमाकर्षणधर्मा लौह- पिण्डविशेषोऽपि मणिकामप्राप्यैव तामाकर्षति । तस्मात् प्राप्तिपूर्वकत्व- मेव सर्वत्र नाशकार्यकारणे वा न नियमो भवितुं युक्तः । तस्मादः प्राप्तमेवान्धकार प्रदीपो निहन्तीति सिद्धान्त निर्वाध सिध्यति । अनोत्तरमाह, अप्राप्यैवेति। परस्परमप्राप्तयोरपि यदि नाश्य-नाश- कभावः प्रदीपान्धकारयोः भवताङ्गीक्रियते तदा देशान्तरस्थः प्रदीपः अन्यदेशस्थितमन्धकार न कथ निहन्यात् । नच केवल नाशकत्व- योग्यतावशादेव नाशके स्थिते नाश्यस्य विनाशो भवेत्, अपितु नाश्य- नाशकयोः सामानाधिकरण्यमपि नितरामावश्यकम् । तञ्च सामाना- धिकरण्य' दैशिक कालिकञ्च अङ्गीकर्त्तव्यम् । तस्माद एकस्मिन् देशे एकस्मिन्नेव काले यदि नाश्यनाशयोः संघटन भवेत् तदैव नाशकेन नाश्यस्य विनाशः सम्पाद्यते, नान्यथा । तस्मादनुत्पन्न प्रदीपन साम्प्रत विद्यमानस्यान्धकारस्य कालिकसामानाधिकारण्य- रहितस्य विनाशः कथमपि न सम्भवति । यदुक्त तत्वज्ञानेना- विद्यानाशः चक्षुषा रुपग्रहणमयस्कान्तेन मण्याकर्षणं तदपि साध्यस- मत्वात् न सिद्धान्ततया ग्रहीतुं शक्यते, विप्रलष्टदेशकालावस्थितानां वस्तुनां वस्तुगत्या तत्तहिनाशजनकत्वमेव न सिध्यतीति प्रतिपादितत्वात्
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति