वसन्तसेना----अहं अज्जचारुदत्तेण भणिदा--जो इमं अलंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादब्वा' । ता सो ज्जेव एदं दे देदित्ति एवं अज्जेण अवगच्छिदव्वं । [अहमार्यचारुदत्तेन भणिता--‘य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमार्येणावगन्तव्यम् ।]
शर्विलकः--( खगतम् ) अये विज्ञातोऽहमनया । (प्रकाशम् ) साधु आर्यचारुदत्त । साधु;
गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।। |
अपि च,
गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् । |
वसन्तसेना--को एत्थ पवहणिओ ? । [ कोऽत्र प्रव1हणिकः १ ।।
( प्रविश्य सप्रवहणः )
चेटः–अज्जए ! सज्जे पवहणं । [ आर्ये ! सज्जं प्रवहणम् ।
वसन्तसेना-हञ्जे मअणिए ! सुदिट्ठ मं करेहि । दिण्णासि । अरुह पर्वहणं । सुमरेसि मं । { चेटि मदनिके! सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् ।
मदनिका--(रुदती ) परिच्चित्तम्हि अज्जआए । [ परित्यक्तास्म्यार्यया । ] ( इति पादयोः पतति )
गुणेष्वेवेति ॥ २२ ॥ गुणेष्विति ॥ २३ ॥
हिप्प०-1 प्रवहणं कणींरथं वहतीति प्रवहणिकः, सारथिरित्यर्थः । 2 अलङ्घ्य-
मपि शिवस्य उत्तमाङ्गं शिर उडुपेन हिमांशुना स्वगुणैरेवोल्लङ्घितमिति भावः ।