प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
मृच्छकटिके

 वसन्तसेना-संपदं तुम जैव वंदणी संतुचा । ता गच्छ, आरुह पर्वहणं । सुमरेसि में । [ सांप्रत त्वमेव वन्दनीया संवृत्ती । तनुच्छ, आरोह प्रवहणम् । सरसि माम् ।

 शर्विलकः---खस्ति भवत्यै । मदनिके !

सुदृष्टः क्रियतामेष शिरसा चन्द्यतां जनः ।
यत्र ते दुर्लभ प्राप्तं वधूशब्दावगुण्ठनम् ॥ २४ ॥

( इति मदनिकया सह प्रवहणमारुय गन्तुं प्रवृत्तः )

( नेपथ्ये ) ।

 कः कोऽत्र भोः ! राष्ट्रियः समाज्ञापयति--एष खल्वार्यको गोपा- लदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः खेषु खेषु स्थानेष्वप्रमत्तै- भवद्भिर्भवितव्यम् ।

 शर्विलकः--(आक) कथं राज्ञा पालन प्रियसुहृदार्यको मे बद्धः ? । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् ; अथवा इयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्ठतमः ॥ २५ ॥ भवतु, अवतरामि । ( इयवतरति )

 मदनिका--(साप्तमञ्जलिं बद्धा ) एवं भेद । तो परे गेदु में अजउसो समीवं गुरुअणाणं । [एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् ।]


सुद्दष्ट इति । यत्र ते इति । हेतावाधार विवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ ३४ ॥ ब्यमिति ॥ २५ ॥ उदवसितं दिप-1 'वधू'शब्दवास्यत्वरूपमवगुण्ठनम् ; अन्यानवलोकनीयत्वान् । अन्यानबलोकनरूपं असूर्यम्पश्या आजदारा इत्यादिसशमिति भावः ।