पुटमेतत् सुपुष्टितम्
१२१
चतुर्थोऽङ्कः

वेदुरिआइं । छेदीअंति संखआ । साणिज्जंति पवालआ । सुक्खविअंति ओल्लविदकुंकुमपत्थरा । सालीअदि सल्लज्जअं । विस्साणीअदि चंदणरसो । संजोईअंति गंधजुत्तीओ । दीअदि गणिआकामुकाणं रसकप्पूरं तंबोलं । अवलोईअदि सुकडक्खअं । पअट्टदि हासो । पिबीअदि अ अणवरअं ससिक्कारं मइरा । इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअंति । आदिसदु भोदी । [ आश्चर्यं भोः, इहापि षष्ठे प्रकोष्ठेऽमूनि तावत्सुवर्णरत्नानां कर्मतोरणानि नीलरत्नविनिक्षिप्तानीन्द्रायुधस्थानमिव दर्शयन्ति । वैडूर्यमौक्तिकप्रवालकपुष्प-रागेन्द्रनीलकर्केतरकपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । बध्यन्ते जातरूपैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । रक्तसूत्रेण ग्रथ्यन्ते मौक्तिकाभरणानि । धृष्यन्ते धीरं वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणैर्घृष्यन्ते प्रवालकाः । शोष्यन्त आर्द्रकुङ्कुमप्रस्तराः । सार्यंते कस्तूरिका । विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयते चानवरतं ससीत्कारं मदिरा । इमे चेटाः, इमाश्चेटिकाः, इमे अपरेऽवधीरितपुत्रदारवित्ता मनुष्या आसवकरकापीतमदिरैर्गणिकाजनैर्ये मुक्तास्ते पिबन्ति । आदिशतु भवती । ]


बध्यन्ते जातरूपैः सुवर्णैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । लोहितसूत्रैर्ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणे घृष्यन्ते प्रवालानि । शोष्यन्ते ओल्लविदमवतारिता आर्द्रिता वा कुङ्कुमप्रस्तराः । ‘प्रस्तरः कुङ्कुमाधारश्चर्मपुटः' इत्याहुः । सालीअदि आर्द्रीक्रियते । सल्लजअं कस्तूरिका । शल्यवद्वेधकत्वात् । आज्यमिव मृन्मदत्वात् (?) । विस्साणीअदि विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः। पीयतेऽनवरतं सशृङ्गारं मदिरा । इमेऽन्येऽवज्ञातपुत्रदारवित्ता मनुष्या आसवकरकेणापीतमदिरा गणिकाजनैर्ये मुक्तास्ते वाटं पिबन्ति । अयमर्थः–मद्यपानभाण्डेनापीतमद्या अनादृतनिजपरि-