पृष्ठम्:मृच्छकटिकम्.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
मृच्छकटिके

मा दाध जइ वि एसो उज्जलो
सिणिद्धो अ सुअंधो अ ।
तह वि मसाणवीधीए जादो विअ
चंपअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥

(अन्यतोऽवलोक्य ) भोदि ! एसा उण का फुल्लपावारअपाउदा उवाणहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । । [ कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति ? । अथवा, मा तावद्यप्येष उज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति । एषा पुनः का पुष्पप्रावारकप्रावृतोपानयुगलनिक्षिप्ततैसचिक्कणाभ्यां पादाभ्यामुञ्चासन उपविष्टा तिष्ठति ? ।]

 चेटी--अज्ज ! एसा खु अम्हाणं अज्जआए अत्तिआ । [ आर्य ! एषा खल्वस्माकमार्याया माता।]

 विदूषकः----अहो से कवठ्ठडाइणीए पोट्टवित्थारो । ता किं एदं पवेसिअ महादेवं णिअ दुआर सोहा इह घरे णिम्मिदा १ । [ अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः। तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता ? ।]

 चेटी---हदास ! मा एवं उवहस अम्हाणं अत्तिअं; एसा खु चाउथिएण पीडीअदि । [हताश ! भैवमुपहसास्माकं मातरम् एषा खलु चातुर्थिकेन पीड्यते ।


वनमिव में गणिकागृहं प्रतिभाति । इहापि अष्टमे प्रकोष्ठे। भवति । क एष पट्टप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलक्षितस्ततः परिभ्रमति ? १ मा दाव जइ वि इति । आर्या । बिततायामिव अमेध्य इवेति पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता । 'पुष्पपट' इति प्रसिद्धः । उपानधुगलनिक्षिप्ततैलचिकणाभ्यां पादाभ्यां लक्षिता । अहो अस्याः कृपकडाकिन्या उदरविस्तारः। 'करट्ट' इति पाढे