प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
मृच्छकटिके

 चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- कृतं मया, तद्ह्यतां पारितोषिकम् । ( इत्युत्तरीय प्रयच्छति )

 चैट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्ञआए णिवेदेमि । [यावदार्याय निवेदयामि । 1 ( इति निष्क्रान्तः )

 विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुहिणे आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।]

 चारुदत्तः–वयस्य ! न सम्यगवधारयामि ।

 विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुलं सुव- एणभंडॐ त्ति ण परितुद्दा अवरं मग्गिद् आअदा । [मया शतम् । अल्पमूल्य रत्नावली, बहुमूल्य सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- मागता।]

 चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति ।

(ततः प्रविशत्युज़वलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च )

 विटः--(वसन्तसेनामुद्दिश्य )

अपझा श्रीरेषा प्रहरणमनङ्गस्य ललित
कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।
सलीले गच्छन्ती रतिसमथलजा प्रणयिनी
रति क्षेत्रे रङ्गे प्रियपथिकसाथैरनुगता ॥ १२ ॥

वसन्तसेने ! पश्य पश्य ।

गर्जन्ति शैलशिखरेषु विलम्धिविम्वा
मेधा वियुकवनिताहृदयानुकाराः ।


पण्डे प्रश्नम् ॥ मुण्डे मस्तके । गोई पदम् ॥ अपरेति । एषा वसन्तसेनेति सैनिकण । लज्जाप्रणयिनीत्यत्र संधावचा (१) मित्यादिनाकारलोपः ॥ १२ ॥