प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
मृच्छकटिके

सदी प्रदोषो मम याति जाग्रतः
सदा च मे निःश्वसतो गता निशा ।
त्वया समेतस्य विशाललोचने !
ममद्य शोकान्तकरः प्रदोषकः ॥ ३७॥

तस्खागतं भवत्य, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः-इदं असणं, उवविसद् भोदी । [ इदमासनम्, उपदिशतु भवती ।।

( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति)

 चारुदत्तः--वयस्य ! पश्य पश्य

वर्षोंदकमुद्भिरता श्रवणान्तविलम्बिना कदम्बेन ।
एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥

तद्वयस्य ! क्लिने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- पनीयतामिति ।

 विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।]

 चेटी–अज्ज मिचेअ । चिट्ट तुम; अहं जेव्व अजअं सुस्सूसइस्से । { तथा करोति ) [ अर्यि मैत्रेय ! तिष्ठ त्वम् ; अहमेवर्या शुश्रूषयिष्यामि ।]

 विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] ।

 चारुदत्तः–एवं क्रियताम् ।

 विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पण- चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमितं पुनरीशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार भागता भवती १ ।।

 बेटी--अजए | उजुओ बम्हणो । [ आयें ! अजुको ब्राह्मणः ।]


सदेति ॥ ३७॥ वर्षोंदकमिति ॥ ३८ ॥ आविओ आचार्य उपदेष्टा (1)