प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
पञ्चमोऽङ्कः

(ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य

विद्युजिह्वेनेदं महेन्द्रनापोच्छ्रितायतभुजेन।
जलधरविवृद्धहनुना विजृम्भितमिवान्तरिक्षेण ॥ ५१ ॥

तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति )

तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् ।
संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ।। ५२॥

(इति निष्क्रान्ताः सर्वे )

दुर्दिनो नाम पञ्चमोऽङ्कः ।


चन्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूप- वर्णनम् ॥५१ । संगीतवीणा इव धाराः ।। ५२ ॥

इति दुर्दिनो नाम पञ्चमोऽङ्कः ।

1 यथा बीणास्तत्र तत्र रोगस्थाने तालानुसारेण तारं मन्द्रं रूक्षं चण्डं च स्वनन्ति तथा धारा इति भावः । तालीदलेषु जलधाराघाते महानुञ्चस्वरः श्रवणप्रत्यक्ष एव । शाखासु मन्द्रं गभीरमू, रूक्ष-चण्डखरयोः परमभेदेऽपि शिलासु सलिलेषु च धार वाले मृदुकाठिन्यकृत आबालवृद्धप्रत्यक्ष देव ।