पृष्ठम्:मृच्छकटिकम्.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
मृच्छकटिके

रे रे वीरक ! किं किं दर्शयसि भणसि तावद्विश्रब्धम् ।
भित्त्वा च बन्धनकं कः स गोपालदारकं हरति ।
क1स्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः ।
षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ? ॥
भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः ।
जीवति चन्दनके क से गोपालदारकं हरति ।


सुरसुतः । जीवति चन्दनके कोऽसौ गोपालकं हरति ॥ १० ॥ ‘रुक्त्रासौ चाष्ट- मस्थे भवन्ति ( ति } सुवच (द) ना अद्यापि चलिते ( न स्वापि वनित!) इत्यष्ट- मरविफलम् । 'चतुर्थेऽविश्वासः शिशुलिन ( खरिणि ) भुजङ्गेन सदृशः' इति [ चतुर्थ ] चन्द्रफलम् । षष्ठो भृगुः परिभव [ स ] रोगतापदः' [ इति षष्ठभार्गवफलम् ] । ‘विष ( रिपु ) गदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । क्षि (द्यु ) तिरपि नाद्य ( स्य ) भवेच्चिरं (च्चिंरं भवेत् ) स्थिरा शिरसि कपेरिव मालती कृता ।' [ इति पञ्चममङ्गलफलम् ] । 'जीवे जन्मन्यपश ( ग) तधनीः (नधीः ) स्थानभ्रंशो ( भ्रष्टो ) बहुकलहोद्यतः' [ इति जन्मस्थगुरुफलम् ]। ‘न सश्री ( स्त्री ) वदनं तिलकोज्वलं न वच (चव ) नं शिखिकोकिलता ( ना)दितम् । हरिणप्लुतसारस ( शाववि ) चित्रितं ( रि ) वि पुणे ( ग } ते मनसः मु ( सु ) खदं गुरौ ॥ [ इति ] षष्ठजीवफलम् । ‘गच्छत्यध्वानं सप्तमे चाष्टमे व टिप्प०. जन्मतोऽष्टमसूर्यफलं मरणम् ; तथा चोक्तं बादरायणेन हुतवमयमारश्चन्द्रजः सौख्यमुग्रं धनहरणमथाकिंभार्गवश्चार्थलाभम् । मरणमथ पतङ्गः स्थाननाशं सुरेज्यः सृजति निधनसंस्थो नेत्ररोगं च चन्द्रः ।' इति । चतुर्थचन्द्रफलं कुक्षिरोगो यथा-'सूक्ष्मां शास्त्रविबोधिकामपि धियं मूढां करोत्यङ्गिरा धोरां दुःखपरम्परां दिनकरः कुश्यामयं चन्द्रमाः । सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गव भौमः शत्रुभयं चतुर्थभवने सौरिश्च वित्तक्षयम् ।' इति । जन्मतः शुक्रफलं मरणं युवतिजनितं वैरं च यथा--‘स्थिताः षष्ठे राशौ दिनकरमहीजार्कतनया बुधश्चन्द्रश्चैवं प्रचुरथनधान्यानि ददति । समृद्धि शत्रूणां मनसिजविषादं सुरगुरुर्भृगुर्नाशं कुर्याद्युवतिकृतवैरं च परमम् ।' जन्मतः पञ्चमममङ्गलफलमुद्वेगश्च यथा-दौभाग्यं शशलान्छनः क्षितिसुतयोद्विग्नतां चेतसः' इति । जन्मतः नवमशनैश्चरफलमर्थनाशः-- धर्मस्थाने दिनकरसुतो नाश-

मर्धस्य कुर्यात्' इति ।