पुटमेतत् सुपुष्टितम्
१८१
सप्तमोऽङ्कः

(प्रविश्य, गुप्तार्यकप्रवहणस्थः )

 चेटः---जाध गोणा ! जधि । [यातं गावौ ! यातम् ।]

 आर्यकः-(स्वगतम्)

नरपतिपुरुषाणां दर्शनाद्भीतभीतः
सनिगडचरणत्वासावशेषापसारः ।
अविदितमधिरूढो यामि साधोस्तु याने ।
प1रभृत इव नीडे रक्षितो वाय2सीभिः ॥ ३ ॥

अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि ? उताहो प्रवहणस्वामिनं पश्यामि ? अथवा कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते; तत्प्रत्यक्षीकृत्य गच्छामि ।

स तावदस्मद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
शरीरमेतद्तमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४॥

 चेटः–इमं तं उजाणं, जाव उवशप्पामि । ( उपसृत्य ) अज्जमित्तेअ ।। [इदं तदुद्यानम् , यावदुपसर्पामि । आर्य मैत्रेय ! ।]

 विदूषकः--भो ! पिअं दे णिवेदेमि । वड्ढमाणओ मंतेदि । आगदए वसंतसेणाए होदव्यं । [भोः ! प्रियं ते निवेदयामि । वर्धमानको मन्त्रयति । आगतया वसन्तसेनया भवितव्यम् ।]


धमें त्यक्तकाष्ठानि तैः प्रतिरुद्धगमनः ॥ ३ ।। नरपतीति । सावशेषः किंचि- दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकस्त्रीरक्षितकोकिल उपमानम् । ३ ।। स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवणस्थस्य टिप्प०---1 प्रातर्निशि वसन्तसेनाभ्रमेणारूढत्वादज्ञात आर्यको यस्मिन्नीदृशे प्रवहणे

तिष्ठेत्येवंभूतः। 2 कोकिल: । 3 अत्र वायस्युपमानमपत्येषु योषितामति ममतावत्वाद्युक्तम् । 4 राजबन्धनरूपद्दुःखात् ।