प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
मृच्छकटिके

 अधिकरणिका-भद्र शोधनक ! अधिकरणमण्डपस्य मार्गमा- देशय ।

 शोधनकः–एदु एदु अधिअरणभोइओ ! एदु । [एत्वेश्वधिकर- णभोजक ! एतु ।]

( इति परिक्रमिन्ति)

 शोधनक-एदं अधिअरणमंडवं । ता पविसंतु अधिअरण- भौइआ । [ अयमधिकरणमण्डपः, तत्प्रविशन्स्वधिकरणभोजकाः ।]

( सर्वे च प्रविशन्ति )

 अधिकरणिकः--भद्र शोधनक ! बहिर्निष्क्रम्य ज्ञायताम्-‘कः कः कार्यार्थी' इति ।

 शोधनकः----अज्जो आणवेदि । ( इति निष्क्रम्य ) अज्जा ! अधिअरणि भांति-को को इध कत्थी' त्ति । [यदार्य अज्ञा- पयति । आर्याः ! अधिकरणिका भणन्तिकः क इह कार्यार्थी' इलि ।]

 शकारः-( सहर्षम् ) उवन्थिए अघिअलणिए । ( साटोपं परिक्रम्य ) हगे वलपुलिशे मणुश्शे वाशुदेवै लश्टिअशाले लाअशाले कज्जत्थी । [उपस्थित अधिकरणिकाः । अहं वरपुरुषो मनुष्यो बासुदेव राष्ट्रिय इयोलो राजश्यालः कायार्थी ।]

 शोधनकः---( ससंभ्रमम् ) हीमादिके, पढ़मं जेव रट्टिअसालो कज्जत्थी । भोदु, अज्ज ! मुडुत्तं चिट्ठ । दाव अघिअरणिणं णिवे- देमि । ( उपगम्य ) अजा ! एसो खु रट्टिअसालो कजत्थी ववहारं उवत्थिदो । [ हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु, आर्य ! मुहुर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः! एष खलु राष्ट्रिय झ्यालः कार्यार्थी व्यवहारमुपस्थितः ।