प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् परिष्कृतम् अस्ति


१६
मृच्छकटिके

वनं गन्तुं बुद्धिर्भवति च कलात्परिभवो
हृदिस्थः शोकाग्निर्न च दहति संतापयति च ॥ १५ ॥

तद्वयस्य! कृतो मया गृहदेवताभ्यो बलिः। गच्छ, त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर।

विदूषकः—ण गमिस्सं। [न गमिष्यामि।]

चारुदत्तः—किमर्थम्?।

विदूषकः—जदो एव्वं पूइज्जंता वि देवणा ण दे पसीदंति, ता को गुणो देवेसु अच्चिदेसु?। [यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति, तत्को गुणो देवेष्वर्चितेषु?।]

चारुदत्तः—वयस्य! मा मैवम्, गृहस्थस्य नित्योऽयं विधिः;

तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः? ॥ १६ ॥

तद्गच्छ, मातृभ्यो बलिमुपहर।

विदूषकः—भो! ण गमिस्सं; अण्णो को वि पउंजीअदु। मम उण ब्रम्हणस्स सव्वं ज्जेव्व विपरीदं परिणमदि। आदंसगदा विअ छाआ वामादो दक्खिणा दक्खिणादो वामा। अण्णं च एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा संचरंति । ता


निवासः ' कथं मम निर्वाहः स्यात्?' इत्येवंरूपायाः। परस्य परिभव इति षष्टीसमासः, कर्माधारयो वा। एत्ज्चावश्वनीयतया निर्धनानां ज्ञेयम् । जुगुप्सा मित्राणामिति; प्रत्युपकारासमर्थत्वात्। स्वजनानां बधूनाम्, जनानामन्येषामुदासीनानाम् । करनं कृतिः। कर्तरि करणे वा ल्युद्। भवति चेति चकारो हेतौ । वनगमने कलत्रपरिभतो हेतुः। ॥१५॥ न रगमिष्यामि ॥ एवं पूज्यमाना अपि देवाः न फलं दर्शयन्ति, तत्को गुणोऽचितेषु?॥ नित्योऽयं विधिः ; अकरणे प्रयवायात् । तपसेति । तुष्यन्ति परलोकमुत्क्ऱुष्टं प्रयच्छन्ति । यतः श्राद्धकृततिथिप्रयो गृहस्तोऽपिमुच्यत इति भावः ॥ १६ ॥