पुटमेतत् सुपुष्टितम्
१७
प्रथमोऽङ्कः

मंडूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावत्थिदो वज्झो दार्णि भविस्सं । तुम इध उवविठ्ठो किं करिस्ससि ? । [ भोः ! न गमिष्यामि; अन्यः कोऽपि प्रयुज्यताम् । मम पुनर्ब्राह्मणस्य सर्वमेव विपरीतं परिणमति । आदर्शगतेव छाया वामतो दक्षिणो दक्षिणतो वामा । अन्यञ्चैतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटावेश्चेेटा राजवल्लभाश्च पुरुषाः संचरन्ति । तस्मान्मण्डूकलुब्धस्य कालसर्पस्य मूषिक इवाभिमुखापतितो वध्य इदानीं भविष्यामि । त्वमिह उपविष्टः किं करिष्यसि ?।]

 चारुदत्तः--भवतु, तिष्ठ तावत् ; अहं समाधिं निर्वर्तयामि ।

(नेपध्ये )

तिष्ठ वसन्तसेनें ! तिष्ठ ।

(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना )

विटः–वसन्तसेने ! तिष्ठ तिष्ठ,

किं त्वं भयेन परिवर्तितसौकुमार्या
नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टि-
र्व्याधानुसारचकिता हरिणीव यासि ॥ १७ ॥


अन्यः कोऽपि प्रयुज्यताम् । मम सर्वमेव विपरीतमुपनमति । आदर्शगता छायेव । आदर्शस्थप्रतिविम्बे वामो भागो दक्षिणे दृश्यते, दक्षिणश्च वाम इति वस्तुगतिः । अन्यञ्चैतस्यां प्रदोषवेलायामत्र राजमार्गे गणिको विटाश्चेटा राजवल्लभाः संवसन्ति । एतेन विटादीनां प्रवेशं सूचयति । नासूचितस्य प्रवेशः' इति । मण्डूकलुब्धस्येव कालसर्पस्य मुखापत्तितो मूषिक इव वध्यो भविष्यामि। किं त्वमिति । विशदौ संचरणलाघवगुणान्वितौ, पटू इति यावत् । उद्विघ्नचञ्चलकटाक्षरूपेण विसृष्टा दृष्टिर्यया सा तथा। अनुसारोऽनुगमनम्। व्याधेन यदनुगमनं तेन त्रस्ता मृगीव ॥ १७ ॥

मृ० १