प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
मृच्छकटिके

 चारुदत्त-वयस्य !

दुर्बलं नृपतेश्चक्षुर्नेतत्तत्वं निरीक्षते।
केवलं वदतो दैन्यमश्लाघ्यं मरणं भवेत् ॥ ३२ ॥

 अधिकरणिकः--कष्टं मो. ! कष्टम्;

अङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः ।
ग्रहोऽऽयमपरः पार्थे धूमकेतुरितोत्थितः ॥ ३३ ॥

 श्रेमिकायस्थ---( विलोक्य, वसन्तसेनामातरमुद्दिश्य ) अवहिदा दाव अज्ज एवं सुवण्णभंडअं अवलोएदु, सो जेव्व एसो ण वेत्ति । [ अवहिता तावदार्येदं सुवर्णभाण्डमवलोकयतु तदेवेदं न वेति ।

 वृद्धा---( अवलोक्य ) सरिसो एसो, ण उण सो । [सदृशमेतद्, ने पुनस्तत् ।]

 शकारः-आं, वुड्कुट्टणि ! अक्खीहिं मंतिदं वाआए मूकिदं । [ आं, वृद्धकुनि ! अक्षिभ्या मश्रितं वाचो मूकितम् । ] वृद्धाहदास ! अवेहि । [ हताश ! अपेहि ।]

 श्रेष्ठकायस्थौ---अप्पमत्तं कधेहि, सो जैव एसो ण वेत्ति । [ अप्रमत्तं कथय, तदेवैतन्न वेति ।।

 वृद्धा---अज्ज 1 सिप्पिकुसलदाए ओबंधेदि दिट्टि । ण उण सो । [ आर्य ! शिल्पिकुशलतयावबन्नाति दृष्टिम् । न पुनस्सत् ।]


पेति लोकोक्तिः । कृतजनदोषश्चासौ भण्डश्चेति विशेषणसमासः ।। मए मम । दिले शिरः ॥ अयमिति ॥ ३१ ॥ दुर्बल मिति ॥ ३२ ॥ अङ्गारकेति ॥३३॥

टिप्प०-1 मया न मारि तेति बदतो दैन्यमाध्यं मरणं भवेदित्यन्वयः । 2 अङ्गारको मरुस्तैन सई विरोधं प्राप्तयेत्याशयः । अत्र कारोऽरिकेनोपमीयते चारुदत्तो बृहस्पतिना, विदूषककप्रदेशादलंकारपतनं धूमकेतुनेति शेयम् । अङ्गारको

विरुखो यस्येति सम्यगर्थः । अत्र अप्रस्तुतप्रशंसालंकारः ।