एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
दशमोऽङ्कः

 शकारः--के एव्वं भणादि ? । [क एवं भणति ? 1]

 सर्वे--( चेटमुद्दिश्य ) णं एसो साहू । । नन्वेष साधुः ।]

 शकारः-( अपवार्य, सभयम् ) अविद मादिके, अविद , मादिके, कधं थावलके चेडे शुट्ठु ण मए शंजदे ? । एशे खु मम अकजज्जश्श शक्खी । ( विचिन्त्य ) एव्वं दाव कलइश्शं । (प्रकाशम् ) अलीअं भश्टालका ! हंहो, एशे चेडे शुवण्णचोलिआए मए गहिदे पिश्टिदे मालिदे बद्धे अ । ता किदवेले एशे जं भणादि किं शच्चं ।। ( अपवा- रितकेन चेटस्य कटकं प्रयच्छति, खैरकम् ) पुश्तका थावलका चेडा ! एदं गैण्हिअं अण्णधा भणीहि । [हन्त, कथं स्थावरकश्चेटः सुष्ठु न मया संयतः ? । एष खलु ममाकार्यस्य साक्षी । एवं तविरकरिष्यामि । अलीकं भट्टारकाः ! अहो, एष चेटः सुवर्णचोरिकया मया गृहीतस्ताडितो मारितो बद्धश्च । तस्कृतवैर एव यद्भणति किं सत्यम् ? । पुत्रक स्थावरक चेट ! एतद्गृहीत्वाऽन्यथा भण।]

 चेटः----( गृहीत्वा ) पेक्खध पेक्खध भट्टालका ! हंहो, शुवण्णेण मं पलोभेदि । [पश्यत पश्यत भट्टारकाः ! अहो, सुवर्णेन मां प्रलो भयति ।

 शकारः---( कटकमाच्छिद्य ) एशे शे शुवण्णके, जश्श कालणादो मए बद्धे । ( सक्रोधम् ) हंहो चांडाला ! मए खु एशे शुवण्णभंडाले णिउत्ते शुवण्णं चोलअंते मालिदे पिश्टिदे; ता जदि ण पत्तिआअधता पिश्टिं दाव पेक्खध । [ एतत्तस्सुवर्णकम् , यस्य कारणान्मया बद्धः । हंहो चाण्डालाः ! मया खल्वेष सुवर्णभण्डारे नियुक्तः सुवर्ण चोरयन्मारित- स्ताडितः। तद्यदि न प्रत्ययध्वं सदा पृष्ठं तावत्पश्यत ।]


पिदधत भवत । तूष्णीकाः मौनिनः । अबिनयतीक्ष्णविषाणो दुष्टधृषभ इत एति ६) ३० ॥ पुश्तका पुत्रक ॥ न हि रत्नकुम्भसदृशोऽहं स्त्रियं मारयामि ॥ एष खलु •••••• - -. ... . .१० .-.-.. --..


मृ० १8