एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
मृच्छकटिके

 चाण्डालः–ता जाव एदं वुत्तं लाइणो जणवाडगदश्श णिवेदेम्ह । [ तद्यावदेतद्वृतं राज्ञो यशवाटगतस्य निवेदयावः ।]

( इति निष्क्रामतः)

 शकारः-( वसन्तसेनां दृष्ट्वा, सत्रासम् ) हीमादिके, केण गब्भदाशी जीवाविदा ? । उक्कंताइं मे पाणाइं । भोदु, पलाइश्शं । [ आश्च- र्यम्, केन गर्भदासी जीवनं प्रापिता ? । उत्क्रान्ता मे प्राणाः । भवतु, पलायिष्ये । ] ( इति पलायते )

 चाण्डालः–( उपसृत्य ) अले, णं अम्हाणं ईदिशी लाआणती-जेण शा वावादिदा, तं मालेध त्ति । ता लट्टिअशालअं ज्जेव अण्णेशम्ह । [ अरे, नन्वस्माकमीदृशी राजाज्ञप्तिः–येन सा व्यापादिता, तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यवः ।]

( इति निष्क्रान्तौ )

 चारुदत्तः-( सविस्मयम् )

केयमभ्युद्यते शस्त्र मृत्युवक्त्रगते मयि ।
अनावृष्टिहते सस्ये द्रोण1वृष्टिरिवागतः ॥ ३८ ॥

( अवलोक्य च )

वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् ।
भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना ने मृताथ सैव ॥३९॥

अथवा,-

किं नु स्वर्गात्पुनः प्राप्ता मम जीवातु2काम्यया ।
तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥


स्तेत्यर्थः ॥ ३७॥ केयमिति ॥ ३८ ॥ चसन्तसेनेति ॥ ३९ ॥ किं न्विति टिप्प०-1 धारासंपातप्रचुरा वृष्टिः। 2 ‘जीवातुजीवनौषधम्' इत्यमरः । तस्या बसन्तसेनाया रूपानुरूपेण सादृश्येन विशिष्टा काव्यन्येयं वेति संभ्रमाद्वितर्कः ।