एतत् पृष्ठम् परिष्कृतम् अस्ति


मारूह्य तदधिष्ठातव्यं च पालकं हत्वार्यको राजा भविष्यति' इति सिद्धादेशाजातशङ्केन राज्ञा पालकेन घोषादानाय्य कारागारे निगडितस्तत्र तन्मित्रशर्विलकमोचितैकपादस्थनिगडतया पलायितोऽधिष्ठाय चन्दनकनाम्नोदण्डधारकात् खङ्गम लभमान आर्यको गोपालप्रकृतिः पुराद्वहिर्यातीति प्रतिपादितम् ॥ सप्तमेऽङ्के आर्यको जीर्णोद्यानं गतः सानुकम्पं चारदत्तेन मोचितापरपादशृखलो रथारूढ एव राजभयात् स्वघोषमपक्रामति, सपरिजनश्वारुदत्तो निजसदनमिति समुपवर्णितम् ।। अष्टमेऽङ्के स्थावरकेण शकारोद्याने नीता वसन्तसेनां विटचेटौ कार्यव्याजेनान्यत्र प्रेष्यैकान्ते रन्तुं प्रत्याचक्षाणां मोटयिरवा, वृक्षपर्णचयेन प्रच्छाद्य सपरिजने शकारे गते, तदुद्यानैकदेशे वस्त्राणि प्रक्षाल्य शोषयितुकामः शकारताडितपूर्वः श्रमणकः पत्रचयमासाय स्फुरणेन सान्तरमवबुध्य पर्णराशिमपाकृत्य तत्र च स्त्रियं दष्ट्वा माथुरकधूतकराभ्यां दशसुवर्णदातव्ये सुवर्णवलयप्रदानेन निजोपकारिकां तां वसन्तसेनामेव प्रत्यभिज्ञाय 'पूर्वमनुगृहीतः संवाहकोऽहमस्मि' इति परिवाय्य निकटविहारस्थां निजधर्मभगिनीं प्रति तां गमयति समाश्वस्तमनागेहं यातु सेत्यर्थमिति ग्रथितम् ॥ नवमेङ्ऽके अधिकरणे गरवा 'मदुद्याने धनलोभेन वसन्तसेना चारुदतेन मारिता' इति निवेदयति संस्थानके तन्निर्णयायाहूतायां वसन्तसेनामातरि च 'निज- वल्लभं चारुदत्तं रमयतुं गता' इति निरूपयन्त्यामकस्मात्तत्रागत्य प्रधानदण्डपालकवीरके 'न केनाप्यवगुण्ठितेन गन्तव्यम्' इति राजाज्ञया छत्ररथेन चारूदत्तं रमयितुं जीर्णोद्यानं गछन्तीं वसन्तसेनां विलोकितुं प्रवृतोऽहं चन्दनमबत्तरकेणापमानितः पादताडनेनेति वर्णयति, रोहसेनाय वसन्तसेनादत्तानि निजभूषणानि पुनस्तां प्रत्यर्पयितुं कुक्षौ निधाय निजमित्रमधिकरणमोजकशब्दायितं निरीक्षितुमागते विदूषके शकारेणोच्चावचं प्रलप्याकुशलतया सर्वसमक्षं तानि तत्रैव पातयति, विभावितापराधं, चारुदत्तं पुराभिर्वासयितुं