पुटमेतत् सुपुष्टितम्
६१
द्वितीयोऽङ्कः

 दर्दुरक–ननु कल्यवर्तमेतत् ।

 माथुरः--( दर्दुरस्य कक्षातललुण्ठी[१]कृतं पटमाकृष्य ) भट्टा ! पश्शत पश्शत । जज्जरपडप्पाबुदो अअं पुलिसो दशसुवण्णं कल्लुवत्तं भणादि । [भर्तारः ! पश्यत पश्यत । जर्जरपटप्रावृतोऽयं पुरुषो दशसुवर्ण कल्यवर्त भणति ।]

 दर्दुरकः-अरे मूर्ख ! नन्वहं दशसुवर्णान्कटक[२]रणेन प्रयच्छामि । तत्किं यस्यास्ति धनं स किं क्रो[३]डे कृत्या दर्शयति ।। अरे,

दुर्वर्णोऽसि विनष्टोऽसि दशस्वर्णस्य कारणात् ।
पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥ १३ ॥

 माथुरः---भट्टा ! तुए दशसुवण्णु कल्लवत्तु । मए एसु विहवु । [ भर्तः ! तव दशसुवर्णः कल्यवर्तः । ममैष विभवः ।]

 दर्दुरकः–यद्येवम्, श्रूयतां तर्हि । अन्यांस्तावद्दशसुवर्णानस्यैव प्रयच्छ । अयमपि द्यूतं शीलयतु ।

 माथुरः—तत्किं भोदु ? । [ तत्किं भवतु ? ।

 दर्दुरकः--यदि जेष्यति तदा दास्यति ।

 माथुरः---अह ण जिणादि ? । [ अथ न जयति ? ।।

 दुर्दुरकः-तदा न दास्यति ।


मित्यर्थः । जीर्णपटसंवृतः (?) । कटकरणेन प्रयच्छामि तत्रार्थः-कल्यवत्तं कल्यं प्रातः वत' बर्तय (?) । कटत्वेन देहीत्यर्थः । अत एव चाधुना देहि । तत्किमिति गृहादानयनादिनापि विनयः संभाव्यत इत्याशयः । दुर्वणेति ॥ १३ ॥ भट्टा इति संबोधनोक्तिः, ममैव विभवः । तदेवं सति किम् ? ॥ अथ न जयति । अथायं न दृढे भद्रं जयतु । पाठान्तरे तु---हह अथ । भद्रकं जन्यम् (१) ॥ एवमहं पत्तुआ धुत्तिजामि प्रतार्ये । अहमपि नाम मथुराभवो



  1. वर्तुलीकृतम.
  2. 'पूरा'पातनेन
  3. उत्संगे.