एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
तृतीयोऽङ्कः

ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आयचारुदत्तः । तद्यावद्द्वारमयोद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! स्वामपि वन्दे । अत्र विस्तीर्णसने निषीदतमार्यौ ।

(उभौ नाट्येन प्रविश्योपविशतः )

 विदूषकः--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं । [ वर्धमानक ! रद निकामाकारयपादौ धावितुम् ।]

 चारुदत्तः---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।

 चेटः---अज्जमित्तेअ ! अहं पाणिगं गेण्हे । तुमं पादाइं धोवेहि । [ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।

 विदूषकः—(सक्रोधम् ) भो वअस्स ! एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेण्हेदि । मं उण बम्हणं पादाइं धोवावेदि । [ भो वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति ।]

 चारुदत्तः---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु ।

 चेटः-- अज्ज़मित्तेअ ! देहि उदअं । [ आर्यमैत्रेय ! देह्युदकम् ।] ( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति )

 चारुदत्तः-- दीयतां ब्राह्मणस्य पादोदकम् ।

 विदूषकः-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मर ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । [ किं मम पादोदकैः ? । भूम्यामेव मया ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।

 चेटः--- अज्जमित्तेअ ! बम्हणे खु तुमं । [ आर्यमैत्रेय ! ब्राह्मणः खलु त्वम् ।]

 विदूषकः---- जधी सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्रह्मणः ।