पुटमेतत् सुपुष्टितम्


श्रीः

मृ च्छ क टि क म्

प्रथमोऽङ्कः

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतज़ानो-
रन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्वदृष्ट्या
शंभोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥


मृच्छकटिकविवृतिः

शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके ।।
पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥

तथा,---

बालानां सुखबोधाय गुरूणां वचनं शुभम् ।।
लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥

 प्रकरणे चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्ध्या वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः, पश्च संधयः, अष्टरसादयः । प्रकरणतो नाटकं विहाय नृपनायकम् (१)' ‘आदि'शब्दात् षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतप्त एवं भाषाः प्रयु- ज्यन्ते--शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते--शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावा- च्छाबरी नास्ति । प्राकृते---‘मागध्यवन्तिका प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥' महाराष्ट्र्यादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-‘शकारामीरचाण्डालशबरद्राविडोड्रजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥ विविध भाषा विभाषाः । हीनपात्रप्रयोज्यवाद्धीनाः । वने- चराणां चेति ठक्कभाषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदत्तब्राह्मणी शोधनकः