पुटमेतत् सुपुष्टितम्
८८
मृच्छकटिके

 शर्विलकः-धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽग्रहस्तः । भवतु, कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति )

 विदूषकः--गहिदं । [गृहीतम् ।]

 शर्विलकः-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् ।

 विदषकः--दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहंं सुविसं । [ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।]  शर्विलकः-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे [१]ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।

धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥

तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि । ( परिक्रम्यावलोक्य च ) अये, परशब्द इव । मा नाम रक्षिणः । भवतु, स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं

[२]मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने
सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
माया रूपशरीरवेशरचने वाग्वेशभाषान्तरे ।
दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौजले ॥ २० ॥


गोर्ब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोऽभ्यर्थना । विक्कीणिपणण्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेति प्रकरणनिश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ ‘पदशब्द' इत्यनेन रदनिकाप्रवे- शसूचनम्। मार्जार इति । ग्रहणयुक्तमालुञ्चनं । प्रहलुञ्चनम् श्वा कुकुरः । माया शाम्बरी विद्या। रूपमाकारम् । वेशोऽलंकारादियोजना । डुडुम उहुंसः (?) ॥२०॥


| टिप्प०-.1 । 2 ।


  1. निजपित्रादि गोत्रम्
  2. तत्तद्देभाषाविज्ञानविषये वाग्देवी सरस्वती अहमित्याशयः