पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
3
MEGHADUTA

श्च वप्रकीडार्थं तटाघातकेलिनिमित्तं परिणतो दत्तप्रहारो यो गजस्तत्प्रेक्षणीयं दृश्यम् । सानुलग्नेभमित्यर्थः । कदा । आषाढस्य प्रशमदिवसे समाप्तिदिने ग्रीष्मावमाने । केचित्तु शकारथ कारयोर्लिपिसारूप्यमोहात्प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रस्तुतत्वादादिदिनमित्येतत्त्वतीव विरुद्धम् ॥ २ ॥

  तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो.'
  रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
  मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
  कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

 तस्य जीमूतस्य पुरोऽग्रतः कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानुचरो भृत्योऽन्तर्बाष्पो ऽस्रुकण्ठः किमप्यज्ञायमानं वस्तु चिरं दध्यावचिन्तयत् । कीदृशस्य । केतकाधानहेतोः केतकाख्यष्पजननकारणस्य । प्रावृषि तेषामुद्भवात् । अथ जलददर्शनमात्रेण कस्मादस्यान्तर्बाष्पत्वं ध्यानं चेत्याह । सुखिनोऽप्यवियुक्तस्यापि मेघालोके वर्षाकाले चेतोऽन्यथावृक्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुनः कण्ठाश्लेषप्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि सति । वर्षासमयमागतमवलोक्य स्वस्था अपि यत्रोत्कण्ठन्ते तत्र विरहिणां का कथेत्यर्थः । कण्ठाश्लेष एव प्रणयोऽर्थिता विद्यते यस्य । मेघा आलोक्यन्ते यस्मिन्निति वर्षाः । स्वरूपात्प्रच्युतावस्थमन्यथावृत्ति ॥ ३ ॥

  प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
  जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
  स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
  प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥


कौतुकाधान• J, M, S. ३ मा. B2