पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
5
MEGHADUTA

यस्माद्ये कामार्ता मदनवागुरापीडितास्ते चेतनाचेतनेषु सिंहपादपादिषु प्रणयकृपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेक्तुं समर्था इति भङ्ग्या कविः स्वदोषं निरस्यति ॥ ५ ॥

 तामेव याच्ञां चाटुपूर्विकामाह ।

  जातं वंशे भुवनविदिते पुष्करावर्तकानां
  जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
  तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
  याच्ञा वन्ध्या वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

 यतस्त्वामहमेवंविधं वेदातोऽहं प्रार्थित्वं प्राप्तः । कीदृशम् । पुष्करावर्तकानां प्रलयमेघानां वंशे कुले जातमिति कुलीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुषममात्यपुरुषमिति प्रभावकथनम् । प्रकृतिषु ह्यमात्याः प्रधानभूताः । इन्द्रम्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतिश्चासाविति वा पुरुषः प्रकृतिपुरुषः । स्वाम्यमात्यौ च राष्ट्रं च कोशो दुर्गं बलं सुहृत् । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ कामरूपं मनोज्ञं म्वेच्छारूपं वा । बह्वरूपत्वान्मेघानाम् । तदेव वक्ष्यति । पुष्पमेघीकृतात्मेति । अत एव विधिवशादहं दूरबन्धुरसंनिहितदारस्त्वय्यर्थित्वं गतो याच्ञाकरः संपन्नः । यद्येवंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुणे कुलादिगुणोत्कृष्टे पुरुषे याच्ञा वन्ध्या निष्फला वरं भद्रम् । अलज्जावहत्वात् । न त्वधमे निकृष्टे लब्धकामा प्राप्तेष्टार्थापीति । भिन्नलिङ्गत्वेऽपि सामान्योपक्रमात्सामानाधिकरण्यम् । यथा। वरं कृपशताद्वापीत्यादौ' ॥ ६ ॥

 न च तवास्मदर्थनानङ्गीकरणं युक्तमित्याह ।

  संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
  संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।


1 6 1 पुष्कला J. १ मोघा J, AI, S, D. • Manu, ix, 294. See verse 43. From the Mahabharatn; eco Böltlingk's Indische Sprüche, No. 5959. ' 'दर्यानङ्गी• A; •ददनाङ्गी• , C.