पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
7
MEGHADUTA

 इदानीं प्रायेणोपदेशमाह ।

  आपृच्छस्व प्रियसखममुंं तुङ्गमालिङ्ग्य शैलं
  वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलामु ।
  काले काले भवति भवता यस्य संयोगमेत्य
  स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ ९ ॥

 अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥ ९ ॥

 न च त्वमेकाकी भविष्यसीति शुभनिमित्तकथनात्साधयन्नाह ।

  मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
  वामश्चायं नदति मधुरं चातकस्तोयगृध्नुः ।
  गर्भाधानस्थिरपरिचयान्नूनमाबद्धमालाः
  सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥

 यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका



भवतो J, M. 2 Tirttika on Pin. i, 3, 21. Pin. V, 4, 91. 'घातकस्ते सगन्धः J, M, S. •णपरिचयान J, M, S, D.