पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
8
MEGHADUTA

अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥ १० ॥

 न च तव निरर्थकः क्लेशो भविष्यतीत्याह ।

  तां चावश्यं दिवसगणनातत्परामेकपत्नी-
  मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
  आशावन्धः कुसुमसदृशं प्रायशो पहनानां
  सद्यःपातप्रणयिहृदयं विप्रयोगे रुणद्धि ॥ ११ ॥

 तां भ्रातृजायां मित्रभार्यां निश्चितमव्यापन्नाममृतामीक्षिष्यसे । कीदृशीम् । दिवसगणनातत्पराम् । कियान्कालो गतः । कियाञ्शेष इत्यधिगणनापरायणाम् । यत एकपत्नीं पतिव्रताम् । एकः पतिर्यस्याः सा ताम् । एवंविधां चेत्कथं तर्ह्यव्यापन्नामित्याह । यस्मान्नारीणां प्रियविरहे हृदयमाशावन्धः प्रायेण रुणद्ध्यवलम्बते । यतः कुमुमसदृशम् । अत एव सद्यःपातप्रणयि तत्क्षणविनाशोन्मुखम् । एवंविधमप्याशया धार्यते । नूनमस्माकं पुनः प्रियेण संयोगो भावीति । आशाबन्ध आशाबन्ध इव । यथाशाबन्धो जालकारकृततन्तुनिकरः कुसुममपि शुष्कं वातेरितं रुन्धे । चशब्दः पूर्ववाक्यापेक्षया समुच्चये । एवमन्यत्र । प्रणयः प्रीतिवन्मुखता । एकपत्नीमिति नित्यं सपत्न्यादिष्विति' ङीब्नकारौ । भातृजायाशब्दे ऋतो विद्यायोनिसंबन्धेभ्य इत्यनुगभावश्चिन्त्यः ॥ ११ ॥

 सहायान्तरसंपत्तिमाह ।

  कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यं"
  तच्छ्रुत्वा ते श्रवणमुभगं गर्जितं मानसोकाः ।


6 "Cf. Windisch, Budilha's (ieburt, P. 25 and 223. 2 Cf. p. 10, line 1. ३ सद्य:पाति J, JI, S. * Pāņ. iv, 1, 35. 3 l'invi, 3, 23. 'मुत्सिम्मिन्धामवन्ध्य A, B, C; मुच्छिलीन्धा- मवन्ध्या J, M; •मुछिनोधातपाS; मुछिलिन्धातपर्णा D. Cf. liniachandra's Inikürthusamgraha, iii, 60.3 f., and Unadigana. nutra, 396.