पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
9
MEGHADUTA

  आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
  संपत्स्यन्ते नभसि भवतो राजहंसाः महायाः ॥ १२ ॥

 तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥ १२ ॥

  मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुकूलं
  संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
  खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
  क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य ॥ १३ ॥

 हे जलद मम गदतोऽध्वानं तावद्भवद्गमनहितमाकर्णय । तदनन्तरं श्रोत्रपेयं कर्णानन्दनं संदेशं श्रोष्यसि निशमयिष्यसि । कीदृशं मार्गमित्यानुकूल्यमाह । खिन्नः खिन्न इति । श्रान्तः संस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि यास्यसि क्षीणप्रायश्च नदीनामगुरु तोयमुपयुज्येति पीत्वा शीघ्रं यास्यसि । पानविश्रामौ हि पथि सुतरामुपयुज्येते । तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः । अव्ययेन हि षष्ठीममामो निषिध्यते । श्रोत्रपेयमिति कृत्यैरधिकार्थवचने । खिन्नः खिन्न इत्यादावाधिको द्वित्वमिति कर्मधारयवत्त्वात्सुब्लुप् भवति ।


2 मतः पूर्ण 5 Pan. ii, 1, 13. अव्यवन्धम . . Pūņ. ii, 2, 11. i, 2, 46; ü, 4, 71. घोपभुज्य M, D. l'an. ii, 1, 3:3. 'मुरूप J, M, S, D. वित्राम: A, B, C, D. • Prn. viii, 1, 11 ;