पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
10
MEGHADUTA

आधिक्ये च द्वित्वमाहितमिति महत्या संज्ञया' ज्ञापितम् । गन्तासीति लुट् । परिलघ्विति क्रियाविशेषणम् ॥ १३ ॥

 मार्गप्रारम्भमाह ।

  अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभि-
  र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
  स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
  दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेहान्' ॥ १४ ॥

 अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥ १४ ॥

  रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
  द्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखखण्डलस्य ।
  येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
  बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥


3 •लेपान 1 5 I l'am. viii, 1, 2. 1 •दृष्टोक्रायS, D. J, M,S, D. humirarnibhara, ii, H. Raghuraika, i, 78. o l'iņ. viii, 1, 12. रवच्छाय.J. धनुःखण्ड J, M, S; but mce p. 11, note 2. •वेषस्य J, M, S, D; cf. Monklin's Reve, 641.