पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
14
MEGHADUTA

 जललवमुचस्तोयकणवर्षिणस्तव सारङ्गा मयूरा मार्गं सूचयिष्यन्ति चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥ २१ ॥

  उत्पश्यामि तमपि सखे मत्प्रियार्थं यियासोः
  कालक्षेपं ककुभमुरभौ पर्वते पर्वते ते ।
  शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः
  प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥

 अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥ २२ ॥

  पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै-
  र्नीडारम्भैर्गृहबलिभुजामाकुलयामचैत्याः ।
  त्वय्यासन्ने फलपरिणतिश्यामजम्बूवनान्ताः
  संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥


1 सबलनयन: J, JI,S, B, D. परिणतफनश्याम. J, M, S, D.