पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
23
MEGHADUTA

गत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥ ३९ ॥

  गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
  छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
  तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
  न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४० ॥

 गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥ ४० ॥


This is the beginning of a verse defining the khwaiti. The full text of it is given by Nandurgikor, Notes, p. 16. Professor Zacharinc informs me that the samo verso is quotes in Vallablındéva's commentary on the Raghuniisu, v, 67 (S. P. Pandit's Notes, p. 46), in the l'italapuvicharivsutika (edited by Uhle, p. 121), and in Vägbhatn's Karyanukusana (Kavyamālā, No. 4:3, p. 61), and that the first quarter of it is found in the commentary on the nikhaköku, verso 039, and in Mahendra's commentary on lomachandra's Anckarthasani. graha, iii, 476. समादस्या: J, M, S, D. 2