नस्त्रिदिवमापुः । या च देवी भुवमवतरन्ती गौरीवक्त्रभ्रुकुटिरचनां दिण्डीरैरवहस्येव सपत्नीव शंभोः केशग्रहणमकरोदिति युवतिधर्मारोपः । इन्दौ लग्ना ऊर्मय एव हस्ता यस्याः सा । करेण हि केशाकर्षणं क्रियते । मत्संनिधावेवानया केशा गृह्यन्त इति गौर्या भ्रुकुटिबन्धः । केशेषु धारणाद्गङ्गायाः केशग्राहित्वम् । सा हि स्वर्गात्पतन्ती हरेण जटाग्रे धृतेत्यागमः । भ्रूकुटिवद्भ्रुकुटिशब्दः संयोगादिरप्यस्तीति न वृत्तभङ्गः ॥ ५० ॥
तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा
स्यादस्थानोपनतयमुनासंगमेवाभिरामा ॥ ५१ ॥
तस्या जाह्नव्या अमलस्फटिकधवलमुदकं त्वं चेत्पातुं तर्कयेः पश्येस्तत्प्रवाहे प्रसरन्त्या भवतच्छायया कान्या सपदि तत्क्षणं मा गङ्गास्थानोपनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यत्रापि संपन्नकालिन्दीसमागमा यथा रम्या भवेत् । त्वत्प्रतिबिम्बस्य यमुनाकारत्वात् । कीदृशस्त्वम् । सुरगज इवैरावणवन्नभसि पूर्वार्धेनोत्तरभागेण लम्बते यः स पूर्वार्धलम्बी ॥ ५१ ॥
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५२ ॥
तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् ।
goro J, M, S. २ यासी M, S, A. J,U, S, D. + oHTU A, B, C, D; cf. p. 1, note 0. शुभ्र J, M, S, D. 3.पगत 5