पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
30
MEGHADUTA

कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥ ५२ ॥

  तं चेद्वायौ सरति मरलस्कन्धसंघटजन्मा
  बोधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
  अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
  रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५३ ॥

 तं नगं यदि दावानलो बाधेत दहेत्तदेनमग्नि त्वमासारेण वेगवद्वर्षेण निर्वापयितुमर्हसि । यस्मान्महतामृद्धय आपन्नार्तिप्रशमितफलाः । यदि ह्यार्तानामापन्न विनाश्यते तत्किं समृद्ध्या प्रयोजनम् । कीदृशो दवाग्निः । वाते वहति सति सरलस्कन्धसंघट्टजन्या देवदारुविटपसंयोगसमुत्थितः । तत्संघट्टवशाद्धि दावानलो जायते । तथोल्काभिर्ज्वालाभिर्दग्धचमरीबालभारः ॥ ५३ ॥

  ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मि-
  न्दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् ।
  तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णा-
  न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४ ॥

 त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥ ५४ ॥


स्यं J. ये संरग्मोत्पतमरभमाः म्वाङ्ग• J, M, S, D. मुक्तावान मपदि J, M, D, मुक्तध्वान सपदि JP, S. स्मन्ये- युर्भवन्तम् J, M, S, D. •वृष्टिपाता• J, M. प्रशन्या 3 4 5 6 . केषां J.