पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
48
MEGHADUTA

 तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥ ९०॥

  सा संन्यस्ताभरणमबला पेलवं धारयन्ती
  शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम् ।
  त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
  प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ९१ ॥

 साबला कृशाङ्गीदृशं देहं वहन्ती निश्चेतनमपि त्वां नतजलमयमस्रमवश्यं त्याजयिष्यति । कीदृशं गात्रम् । पेलवं कृशं सुकुमारम् । अत एव संन्यस्ताभरणं त्यक्तमण्डनम । तथा तल्पपृष्ठे निक्षिप्तमप्यतिक्लेशेन बिभ्रती । यद्येवंविधा सा किमित्यहं रोदिमीत्याह । यस्माद्य आर्द्रान्तरात्मा सरसचित्तः स सर्वः प्रायेण करुणावृत्तिः कृपाशीलो भवति । त्वं च सजलत्वादार्द्रान्तरः । करुणा कृपैव वृत्तिर्व्यापारो यस्य स करुणावृत्तिः । कृपार्थवृत्तेः करुणाशब्दस्य भाषितपुंस्कत्वाभावान्न पुंवद्भावः । दुःखदुःखेनेत्याधिक्ये निर्वचनम् । दुहेरिव मुचेरपि विकर्मकत्वात्त्वामस्रं मोचयिष्यतीति ॥ ९१ ॥

  रुद्धापाङ्गप्रसरसलकैरञ्जनस्नेहशून्यं
  प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
  त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
  मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति' ॥ ९२ ॥

 भवति निकटस्थे सति तस्या हरिणनयनाया नेत्रमपरिस्पन्दित्वादनिमेषोत्पलनचटुलोत्पलशोभामाम्यं प्राप्स्यतीत्याशङ्के संभावयामीति


। पेश , D. ? Pän. vi, 3, 334. 3 Cf. p. 10, line 1. . .चोभावन• J, M, D. Cf. verse 10.