पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
50
MEGHADUTA

यथा । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजमिति । स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इति च ॥ ९४ ॥

  तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
  प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
  विद्युगर्भे निहितनयनां त्वत्सनाथे गवाक्षो
  वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ ९५ ॥

 ततः सुप्तां तां मनस्विनीं निजोदकबिन्दुभिस्तुषारेण समीरणेनोत्थाप्य गम्भीरगर्जितैर्नैव वचसा वक्तुं प्रकमेथाः प्रारभेथाः । कीदृशीम् । शीतवातसंस्पर्शात्समाश्वस्तां मालतीजालकैः सह । सा हि प्रभाते विकसति । तथा भवदधिष्ठितत्वाद्विद्युद्गर्भे तडित्वति वातायने दिदृक्षया क्षिप्तचक्षुषम् ॥ ९५ ॥

 किं वच्यामीत्याह ।

  भर्तुर्मित्रं प्रियमविधवे विद्धि मामबुवाहं
  तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् ।
  यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
  मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥ ९६ ॥

 हे अविधवे पतिवति भावत्कस्य पत्युर्मित्रं प्रियमम्बुवाहं जीमूतं मां त्वं विद्धि जानीहि । तत्संदेशान्मनसि निहितात्तदीयं संदेशं चेतसि गृहीत्वा त्वन्निकटं प्राप्तम् । यश्चाम्बुवाहो मार्गे श्राम्यतां खेदं भजतां प्रोषितानां प्रवासिनां कदम्बकानि मन्द्रस्निग्धैर्मधुरारूक्षैर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमोक्षणे कबर्युन्मोचन


5 . Ringhurmán, i, 6.

Kimirosuribhara, iii, 17.

3 प्रोत्थाप्यमा J. ' वर्मालतीमा रजोभिः ). विद्युद्गर्भः I, I), विद्युत्कम्प... "म्तिमिलनयनां J, I, S, D. धीरः ; वचनो J, A, C. • •मभिदधे J. शर्मनमि निहितैरागतं J', ID, शहंद. यनिहितरागतं , S, शादृदयनिहितादागतं A, B, C; but bec theo commentary. मान्द्र• A, B, C. 10