पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
52
MEGHADUTA

पत्तीनां शरीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्क्षणीयं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्त्रणम् । ब्रूयादिति प्रथमपुरुषप्रयोगात् । आशास्यशब्देऽनुपसर्गाधिकारादेतिस्तुशासव्रिति क्यवभावः ॥ ९८ ॥

 ततः किमित्याह।

  अङ्गेनाङं तनु च तनुना गाढतप्तेन तप्तं
  सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
  उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
  संकल्पस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥ ९९ ॥

 तव प्रेयान्दरवर्ती संकल्पैरुत्कण्ठावशादङ्गेनाङ्गं विशति वपुषा त्वद्देहं प्रवेष्टुमिच्छति । त्वयैक्यं यियासतीत्यर्थः । भिन्नयोश्चैक्यं सारूप्याद्भवतीति तयोरङ्गयोस्तनु च तनुनेति पृथग्विशेषणैः सादृश्यकथनेन ममानुरागतामाह । अयं द्रवतीत्यनुद्रम् । पचादित्वादच् । कम्पादात्मना नायातीत्याह । विधुरेण विधिना रुद्धवर्त्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुतेति पठनीयम् ॥ ९९ ॥

  शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
  त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
  सोऽतिक्रान्तः श्रवणविषयं लोचनानामगम्य-
  स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १०० ॥

 स तव प्रियो मन्मुखेनेदं वक्ष्यमाणं त्वामाह ब्रवीति । स कः । यत्किल शब्दाख्येयं प्रकटवाच्यं तदपि सखीसंनिधाने व्याजं विधाय यस्तव कर्णे


. 1 l'an. jii, 1, 100 and 109; ufafa 1. B, C, D). प्रतनु M, S, D. माझेणाश्रुद्रुतम. 11, S. दीर्घाच्छाम, मोप्णो ]). मंकन्यम्तविंशति J, I, D. " ममानुरागिता° .1, मानुरागता° B, C, D). l'an. ii, 1, 134. * Vallabharlorn's emendation hna bocn ndopteil by Mallinātha ; nec note?. तत्सवीना Apr. m., B, C. 1" नोचनाभ्यामदृष्ट° J, लोचनाभ्यामदृश्य • I, S, D.