पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
53
MEGHADUTA

वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥ १०० ॥

 इदं किमित्याह ।

  श्यामास्वङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं
  गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
  उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा-
  न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥ १०१ ॥

 हे भीरु कातरे तव सारूप्यमेकस्थं कष्टं क्वचिदपि न विद्यते । यदालोक्यात्मानं समाश्वासयेयम् । तथा हि श्यामालतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिणप्रेक्षणे च दृष्टिपातम् । त्रस्तसारङ्गवच्चटुलावलोकनात् । एवमुत्तरत्र यथायथं योज्यम् । कपोलकान्तिं मृगाङ्क उत्पश्यामि । मयूराणां कलापाटोपेषु कचभरम् । सूक्ष्मसरित्कल्लोलेषु भ्रूविलासान् । भीर्वित्यन्वर्थं नाम नारीणाम् । संज्ञापूर्वको विधिर नित्य इति ह्रस्वगुणाभावः ॥ १०१ ॥

  त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
  मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
  अस्रैस्तावन्मुहुरूपचितैर्दृष्टिरालिप्यते मे
  क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ १०२ ॥

 भवतीं प्रणयकुपितां प्रीत्या कपितां धातुरागैः सिन्दूरादिरागैर्दृषत्स्वालिख्य प्रार्थनयात्मानं तव पादगतं कर्तुं यावदिच्छामि तावत्त्वदाकारस्य स्मरणाद्बाष्परसकृदुपचितैवृद्धैश्चक्षुषी ममाच्छाद्येते । अतश्च


•हरिणो•J, I, S. D; •प्रेषणे [, S, D. •पाताम् ). amorat J', M, S, D. * •कस्मिन् M. safu J, M, S, D. Compare Paribhishëndusekhara, 93, 1. Pūņ. vii, 33, 108. 'लुप्यते J', I, S, D. - 2 3 6 8