पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
55
MEGHADUTA

  संक्षिप्येरन्क्षण इव कथं दीर्घयामास्त्रियामाः
  सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
  इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
  गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १०५ ॥

 हे चञ्चललोचने गाढोष्माभिस्तीव्रसन्तापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्लभप्रार्थनं कृतम् । यद्यद्दुष्प्रापं तत्तदभिन्नलषामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम संक्षिप्येरन्गच्छेयुः । तथा ग्रीष्ममध्याह्नादिष्वपि सकलासु दशासु दिनमतिमृदुरविप्रभं कथं स्यादिति । एतच्च दुर्लभम् । न हि निखिला क्षणदा क्षणवत्क्षीयते । न च दिनं सर्वदा मन्दातपं भवति । गाढोष्माभिरिति डावुभाभ्यामन्यतरम्याम । संक्षिप्येरन्निति कर्मकर्तरि ॥ १०५ ॥

  नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे
  तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
  कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
  नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १०६ ॥

 आत्मावस्थां प्रतिपाद्य संप्रति कर्तव्यतामाह । हे कन्याणि भद्रे तवापि नन्वात्मानं बहुविधं विगणयञ्जानन्स्वयमेव नावलम्बे न । अपि त्ववलम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातरत्वमधैर्यं सुतरामत्यर्थं मा गमो मा यासीः । यस्मात्कस्य संसारिणो नित्यं सुखमुपनतं घटितमेकान्ततो नियमेन दुःखं वा । यत एताः सुखासुखरूपा दशा अवस्थाश्चक्रनेमिवत्कदाचिन्नीचैर्गच्छन्त्यधो यान्ति कदाचिच्चोपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । सुखं च दुःखं च भवाभवौ


3 । ममिप्यत J, JI,S. आणमिवJ, D. दीर्घयामा चियामा J.M, S. च मे D. गाढोपणाभिः J', S. * Pan. iv, 1, 13. म स्वात्मानं 1,A, त्यात्मानं D. •मवावलम्मे J', M, S, D. 'मितराJ.M, S. 1" कस्यकान्तं J, I. ॥ •पगत D.