पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
58
MEGHADUTA

लक्षयामि । तथा हि त्वमर्थितः सन्नब्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिष्वभिमानार्थसंपादनमेव प्रतीपवचनम् । महान्तो हि कर्मणा ब्रुवन्ति न वचमा ॥ ११० ॥

 स एवमुक्त्वाशिषमाह ।

  एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे
  सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
  इष्टान्देशान्विचर जलद प्रावृषा संभृतश्री-
  र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १११ ॥

 हे जलधरानुचितप्रार्थनावर्त्मनोऽननुरूपयाच्ञामार्गस्य ममैतत्संदेशहरणलक्षणं प्रियं विधाय ततस्त्वं वर्षाकालेऽर्जितदेहोन्नतिरभिमतं स्थानं वचर भ्रम । कुतो विधाय । स्नेहेन प्रीत्या । स्नेहाभावश्चेद्विधुरो दुःखितोऽयमिति मयि कृपाधिया वा । किं बहुना । एवमनेन प्रकारेण मद्वत्तवापि निमेषमपि तडित्प्रियया विरहो मा भूदिति भद्रम् ॥ १११ ॥

जति राजानकानन्ददेवात्मजः
परमात्मचिह्नापरनाम-
वल्लभदेवविरचिता
मेघदूतविवृतिः
समाप्ता ॥


1 2 •भाजलद •धित प्रार्थनादात्मनोJ, M..चितप्रार्थनावर्तिनोs. विचरा. मखे..