पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०

पुटमेतत् सुपुष्टितम्
मेघदूतम् ।

 धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां संनिपातः संघातो मेघः क्व । अचेतनत्वात्संदेशानर्ह इत्यर्थः । पटुकरणैः समर्थन्द्रियैः ॥ “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि” इत्यमरः ॥ प्राणिभिश्चेतनैः ॥ "प्राणी तु चेतनो जन्मी" इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः संदिश्यन्त इति संदेशास्त एवार्थाः क्व । इत्येवमौत्सुक्यादिष्टार्थोद्युक्तत्वात् ॥ "इष्टार्थोद्युक्त उत्सुकः" इत्यमरः ॥ अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेघं ययाचे याचितवान् ॥ "याचृ याञ्चायाम्" ॥ तथा हि-- कामार्ता मदनातुराश्चेतनाश्चाचेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाञ्चा न विरुध्यत इत्यर्थः । अत्र मेघ-संदेशयोर्विरूपयोर्घटनाद्विषमालङ्कारः । तदुक्तम्- "विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृतिस्त्रिधा ॥” इति । सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥

 सम्प्रति याञ्चाप्रकारमाह-

 जातं वंशे भुवनविदिते पुष्करावर्तकानां
 जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
  तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
 याञ्चामोघा[१] वरमधिगुणे नाधमे लब्धकामा ॥६॥

 जातमिति ॥ हे मेघ, त्वां भुवनेषु विदिते ॥ “निष्ठा” इति भूताथ क्तः । “मतिबुद्धि-” इत्यादिना वर्तमानार्थत्वे तु "क्तस्य च वर्तमाने" इति भुवनशब्दस्य पठ्यन्ततानियमात्समासो न स्यात् । ‘क्तेन च पूजायाम्” इति निषेधात् ॥ पुस्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थ । कामरूपमिच्छाधीनविग्रहम् । दुर्गादिसंचारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृतिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशाद्दैवायत्तत्वात् ॥ “विधिर्विधाने दैवे च" इत्यमरः ॥ "वशमायत्ते वशमिच्छाप्रभुत्वयोः"


 (६) हे मेघ ! भाग्यवशात्प्रियावियुक्तोऽहं त्वां कुलीनं विज्ञाय याचितुमुपस्थितोऽस्मीति भावः ।


  1. वन्ध्या ।