पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
पूर्वमेघः ।

महाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासप्रबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखो निदोषत्वादुन्नतमुखः सन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ “अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च" इति विश्वः ॥ अद्रेरद्रिकल्पस्य दिङनागाचार्यस्य" शृङ्गं प्राधान्यम् ॥ "शृङ्गं प्राधान्यसान्वोच" इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैर्महा कविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ “संसर्गतो दोषगुणा मवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानूकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥’ इत्येतच्छलोकनिर्माणात्तस्य कवेर्निचुलसंज्ञेत्याहुः ॥

 रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
  द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य ।
 येन श्यामं वपुरतितरां कान्तिमाप[१]त्स्यते ते
  बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥१५॥

रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्रणमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतिदिति हस्तेन निर्देशो विवक्षितः ॥ पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥ "वामलूरश्च नाकुश्व वल्मीकं पुनपुंसकम्" इत्यमरः ॥ प्रभवत्याविर्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्ज्वलकान्तिना बर्हेण पिच्छेन ॥ “पिच्छबर्हे नपुंसके” इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्तिं शोभामापत्स्यते प्राप्स्यते ।।

 त्वय्यायत्तं कृषिफलमिति भ्रू विलासा[२]नभिज्ञैः
  प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
 सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
  किंचित्पश्चाद्ब्र[३]ज लघुगतिर्भू[४]य एवोत्तरेण ॥१६॥


 (१५) गोपवेषधारिणः कृष्णस्य मयूरपिच्छेन श्यामं वपुरिव तवापि तादृशं वपुरेतेन शक्रधनुःखण्डेन शोभिष्यत इति भावः ।
 (१६) कृषिफलसाधत्वबुद्ध्या पल्लीयोषिद्भिरीक्षितस्त्वं मालाख्यगिरावभिवृष्य तत उत्तरेण पथा गच्छेति भावः ।


  1. आलप्स्यते
  2. भूविकारानभिज्ञैः.
  3. प्रवलय गतिम्
  4. किंचिदेव.