भवतीति किमु वक्तव्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् । तदुक्तं निमित्तनिदाने-"प्रथमावसथे यस्य सौख्यं तस्याखिलेऽध्वनि । शिवं भवति यात्रायामन्यथा ध्रुवम् ॥’ इति ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१८॥
छन्नेति ॥ हे मेघ, परिणतैः परिपक्वैः फलैर्दोतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः। काननाम्रैर्वनब्रूतैश्छन्नोपान्त आवृतपार्श्वोऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसृणकेशबन्धच्छाये । श्यामवर्ण इत्यर्थः ॥” "वेणी तु, केशबन्धे जलस्रुतौ" इति यादवः ॥ त्वयि शिखरं शृङ्गमारूढे सति ॥ “यस्य च भावेन भावलक्षणम्” इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः ॥ "हरिणः पाण्डुरः पाण्डुः” इत्यमरः ॥ भुवः रतन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दाश नीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्क्षप्रेसंभवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्वद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥
१८-१९ श्लोकयोर्मध्ये क्वचित्प्रक्षिप्तोऽयं दृश्यते-
(१८) हे मेघ । एष आम्रकूटः शिखरे त्वयाऽधिष्ठितः सन् पृथ्वीस्तन इव खेचरयुगलदर्शनीयावस्थामाप्स्यतीति भावः ।